________________
172
अलङ्कारराघवे
' दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' ..
इति काव्यप्रकाशकारः । 'तस्यापि णिवप्रतिबितया निर्देशे दृष्टान्त'
इत्यलङ्कारसर्वस्वकारः । 'बिम्बप्रतिबिम्बत्वं यद्युपमानोपमेययोः भवति । धर्मस्यापि तदानीं दृष्टान्तः कथ्यते द्विविध' इति विद्याधरः । ' दृष्टान्तो यत्र बिम्बप्रतिविम्बतया भवेत् । निर्देशो धर्मयुतयोरुपमानोपमेययोः॥'
. इति साहित्यचिन्तामणिकारः । 'यत्र वाक्यद्वये विम्बप्रतिबिम्बतयोच्यते । सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते ॥'
... इति विद्यानाथः । प्रथमलक्षणे एतेषां साधारण धर्मादीनामित्यर्थः । एतानि लक्षणानि न युक्तानि । प्रतिवस्तूपमायामतिव्याप्तेः । तत्राप्युपमेयोपमानगतत्वादिना 'सामान्यभेदसंभवे बिंबप्रतिबिंबभावस्य कल्पयितुं शक्यत्वात् । ननु तत्र स्वरूपेण अभेदस्य प्रतीयमानत्वेन वस्तुप्रतिवस्तुभाव एव, न बिंबप्रतिबिम्बभाव इति चेत्, मैवम् । प्रमेयत्वादिसाधारणधर्मत्वाभ्याम् अभेदस्य,
. ....प... नेळिनाम् इति रिक्तभागः असमीचीनभागश्च दृश्यते ।
स तु शोधितः । 1 न च - आ. 'धर्माणामित्यर्थः - आ . 'सामान्यधर्मभेदसंभवे - तन ।