________________
प्रतिवस्तूपमालङ्कारप्रकरणम्
171
i) तत्र साधर्म्यण प्रतिवस्तूपमा यथा -
'अलंकारोति कोटीरं रामचन्द्रस्य मस्तकम् ।
परिष्कारोति मार्ताण्डबिम्बं पूर्वाद्रिशेखरम् ॥' अत्र यथा मार्ताण्डबिम्बमुदयशिखर परिष्करोति तथा मणि कोटीरं रामस्य शिरः अलङ्कारोतीत्यौपम्यं गम्यते । ii) वैधपेण सा यथा -- इन्द्रनीलदळपद्धहंसका
साधु रञ्जयति 'पादपल्लवम् । राघवस्य पदलम्बिनाळिना
येन भासयति फुल्लपङ्कजम् ॥ यथाळिमण्डलं पङ्कजं तथेन्द्रनीलहंसको रामपादं रञ्जयतीत्यौपम्यं गम्यते । इयं तु मालारूपेणाप्युदाहर्तव्या ।
|| अथ दृष्टान्तालङ्कारः॥ अस्यापि गम्यौपम्यत्वेन पेटिकायास्सङ्गतिः । वस्तुप्रतिवस्तुभावेन सामान्यनिर्देशानन्तरं बिम्बप्रतिबिम्बभावेन तन्निर्देशो युक्त इत्यवान्तरसङ्गतिः ।
1 पाणिपल्लवम् - आ* रथोद्धतावृत्तमिदम् । रानराविह रथोद्धता लगौ ' इति वृत्तरत्नाकरे तल्लक्षणम् । 'इन्द्रनीलदत्यस्य पद्यस्य तृतीयचतुर्थपादौ 'त' प्रतौ, न प्रतौ च एवमस्ति -- 'राघवस्व पटलं विनाशिना किं न भासयति फुरलपङ्कजम् ।' इति । अयं च भागः दोषपूर्णः इति कृत्वा संशोधितः । 'आ' प्रतौ तृतीयपादे 'राघवस्म प....लं