________________
दृष्टान्तालकारप्रकरणम्
173 दृष्टान्तस्थलीयसामान्यधर्मस्यापि कल्पयितुं शक्यत्वेन वस्तुप्रतिवस्तुभावापस्या असम्भवप्रसङ्गात् । तस्मात् दृष्टान्तालझारलक्षणं दुर्निर्षचमिति चेत् । अत्रोच्यते -- - ''शब्दश्रषणतदनन्तरम् अत्यन्ताभावाप्रतियोगिधर्मसाधारणधर्मत्वव्यतिरिक्त धर्मसंपन्धत्वेन 'अमिन्नत्वेनाप्रतीयमानसामान्यधर्मो यत्र वाक्यद्वये विम्बप्रतिबिंबभावेन निबध्यते स दृष्टान्तालंकार'
इति लक्षणनिष्कर्षः । _ दृष्टान्तालंकारे सामान्यधर्मस्य प्रमेयत्वादिना अभेदेऽपि प्रातिस्विक. रूपेण भेदाप्रतीतेः बिम्बप्रतिबिम्बभाव इति नासंभवः । यद्वा वाक्यग्रहणसमनन्तरमेव 'शाब्दधर्मसंबन्धत्वेन अभिन्नत्वेनाप्रतीयमानसामान्यधर्मो यत्र बिम्बप्रतिबिंबभावेन निबध्यते स दृष्टान्तालंकारः । अयमपि साधर्म्यवैधाभ्यां द्विविधः । _i) तत्राऽऽद्यो यथा‘पश्य पद्यमुकुलानि सर्वतः
संप्रफुल्लयति भानुमण्डलम् । राघवस्य मकुटं जनुष्मता
लोचनानि परिमोदयत्यलम् ॥ अत्र यथा भानुमण्डलं पद्मानि विकासयति तथा रामकिरीट जन. लोचनानि आनन्दयति इत्यौपम्यं गम्यते ।
1 शब्दश्रवणसमनन्तरम् - त,न 'धर्मसंबन्धेन - न ' भिन्नत्वेनाप्रतीयमानासामान्यधर्मो - न 'शब्दाधर्मसंबन्धाभिन्नत्वेन - न रथोद्धतावृत्तम् । 'रामराविह रथोद्धता लगौ' इति वृत्तरत्नाकरे तल्लक्षणमुक्तम् ।