________________
प्रतिवस्तूपमालङ्कारप्रकरणम्
169
॥ अथ प्रतिवस्तूपमा । अथ वाक्यार्थगतमलकारद्वयं निरूप्यते । तत्रापि वस्तुप्रतिवस्तु. भावस्य प्राथमिकैकत्वसंख्याघटितत्वेन प्राधान्यात् तद् प्रतिवस्तूपमालङ्कारः प्रथमं निरूप्यत इत्यवान्तरसंगतिः । गम्यमानौपम्यत्वेन पेटिकायास्संगतिः ।
ननु - 'प्रतिवस्तूपमा तु सा, सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः'
इति काव्यप्रकाशकारः । 'वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रतिषस्तूपमा'
इत्यलकारसर्वस्वकारः । 'वाक्यार्थगतत्वेन स्यात्सामान्य पृथग्विनिर्दिष्टम् । यस्यां द्वेधा तज्झैः सा प्रतिवस्तूपमा समानाता ।।
। इत्येकावळीकारः । 'यत्रैकमेव सामान्यं पृथग्वाक्यद्वये कृतम् ।। प्रतिवस्तूपमा सैषा द्विविधा पूर्ववद्भवेदिति ॥'
साहित्यचिन्तामणिकारः । 'यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात् प्रतिवस्तूपमा मता ॥
तत्र द्वितीयतृतीय'चतुर्थपञ्चमलक्षणेषु यथाश्रुते दृष्टान्तालकारेऽतिव्याप्तेः । तत्रापि वाक्यद्वये सामान्यनिर्देशात् । ननु 'तत्र वाक्यैकत्ववत् एकत्वं विवक्षितमिति न तत्राऽतिव्याप्तिरिति चेत्तर्हि - ...
1 'चतुर्थ' इति शब्दः 'न' प्रतौ मध्ये नास्ति । - i) तत्रेति प्रश्ने कर्तृवत्-त.. ii) तत्रेति पक्षे कर्तृवत्-न :