________________
168
अलङ्कारराघवे न चतुर्थः । अन्यतरशब्दार्थस्य प्रागुक्तन्यायेन निर्वक्तुमशक्यत्वात् । तस्मातुल्ययोगितालंकारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते -
'केवलप्रकृतानां तुल्यधर्मसंबन्धेन गम्यमानौपम्यवत्वे सति केवलाप्रकृतानां तुल्यधर्मसंबन्धेन गम्यमानौपम्यवत्वं यत्र नास्ति नैतद्विशेषणविशेष्योभयाभावानाधारभूता' तुल्ययोगिता' .. .
इति लक्षणनिष्कर्षः । अत्र केवलप्रकृतगर्भतुल्ययोगितायां सत्यन्तविशेषणसत्वेऽपि विशेप्योभगभावाल्लक्षणानुगतिः। केवलाप्रकृतगर्भतुल्ययोगितायां विशेष्यसत्वेऽपि विशेषणाभावाद्विशिष्टाभावानुगत्या लक्षणानुगमो द्रष्टव्यः । निदर्शनाद्यलकारान्तरेष्वतिव्याप्तिनिरासार्थम् एतद्विशेषणविशेष्योभयाभावानाधारभूतेत्युक्तम् । तत्र तदुभयाभावसत्वात् तेन तद्व्यावृत्तिः । तत्र केवलप्रस्तुतानां यथा
'किरीटहाराङ्गदकङ्कणानि
रत्नांगुळीयानि च राघवस्य । नृणां सुराणामनिमेषदृष्टेः
प्रयान्त्यभीक्ष्णं रमणीयभावम् ॥'. अत्र किरीटादीनां रत्नांगुळीयानां च प्राकरणिकत्वम् । अनिमेषदृष्टेः रमणीयभावं प्रयान्तीत्यनेन समानधर्मः । तत्र समानौपम्यं वैवक्षिकं, न वास्तवमिति ध्येयम् । केवलाप्राकरणिकानां यथा -
'ग्रहनक्षत्रमार्ताण्डशीतभानुकशानवः ।
रामभूषणमाणिक्यधाम्ना सद्यस्तिरोहिताः ॥'
अत्र ग्रहनक्षत्रादीनाम् अप्राकरणिकत्वम् । रामभूषणतेजसा तिरो. धानं समानधर्मः ।
'भूतं-त,न 'उपजातिवृत्तमिदम् । 'अत्र गम्यमानौपम्यं वैवक्षिकं न-न