________________
तुल्ययोगितालङ्कारप्रकरणम्
167
'औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे 'तुल्ययोगिता'
इत्यलंकारसर्वस्वकारः । 'प्रस्तुतानां तथान्येषां यद्यौपम्यं विवक्षिते । धर्मस्य या सकृवृत्तिः सा भवेत्तुल्ययोगिता ॥'
इति साहिचिन्तामणिकारः । 'प्रस्तुतानां तथान्येषां केलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ||
इति विद्यानाथः । तत्र सर्वत्र वक्तव्यम् । प्रकृतानां तुल्यधर्मसंबन्धेन औपम्यगम्यत्वेन तुल्ययोगिता 'प्रकृतानां तथात्वे वा । अप्रकृताना तथात्वे वा । अप्रकृताप्रकृतानां समुच्चितानां तथात्वे वा। 'तदन्यतरतथात्वे वा । नाद्यः । केवलाऽकृततुल्ययोगितायामव्याप्तेः । न द्वितीयः । केवलप्रकृतगर्भतुल्ययोगितायामव्याप्तेः । न तृतीयः। प्रकृताप्रकृतगर्भ तुल्ययोगितालङ्कारासंभवेन असंभवप्रसङ्गात् ।
''तुल्ययोगिता' इत्यनन्तरं 'विद्यानाथः इत्यन्तो भागः 'न' प्रतौ लुप्तः । ' तदान्येषां-त ''प्रकृतानां तथात्वे वा' इति भागः 'न' प्रती लुप्तः ।। • ' तदन्यतरतथात्वे वा' इत्यारभ्य 'न चतुर्थः' इत्यन्तो भागः
'त' प्रतौ लुप्तः। ''तुल्ययोगितायां विशेष्यसत्वेऽपि विशेषणाभावात् विशिष्टाभावा. भावेन असम्भवप्रसङ्गः' - इति भागः 'न' प्रतौ – 'न तृतीयः, प्रकृताप्रकृतगर्भतुल्ययोगितासम्भवेन असंभवप्रसंगात् ' इत्यस्मिन् भागे दृश्यते । अयमसंबद्धः प्रामादिकश्चेति शोधितः ।