________________
166
अलङ्कारराघवे
iii) अन्त्यदीपकं यथा -- सुराचलो भास्करचन्द्रमोम्या
रमापतिश्शसुदर्शनाभ्याम् । रघूत्तमस्तन्मणिकुण्डलाम्या
- विराजते मेग्रमहीप्रदेशे॥ अत्र यथा मेरुः पुष्पवद्भयां, हरिः पाञ्चजन्यसुदर्शनाभ्यां, तथा रामः मणिकुण्डलाभ्याम् इत्यौपम्यं गम्यते । एवं गुणयोगेऽप्युदाहरणीयम् ।
॥ अथ तुल्ययोगितालङ्कारः ॥ अस्य गम्यौपम्यत्वेन पेटिकायास्संगतिः । “पूर्वापेक्षयाल्पभेदवत्वेन पदार्थगतत्वेन अस्य तदानन्तर्यमित्यवान्तरसंगतिः । ननु - 'नियतानों सद्धर्मः सा पुनः तुल्ययोगिता'
इति काव्यप्रकाशकारः । 'औपम्यगम्यतायां प्रकृतानां तुल्यधर्मसंबन्धे । अप्रकृतानामथवा चतुर्विधा तुल्ययोगिता ज्ञेया ||
इति विद्याधरः।
-
-
-
-
1 उपेन्द्रवज्रावृत्तम् । 'उपेन्द्रवज्रा जतजास्ततो गौ' इति तल्लक्षणं ..
वृत्तरत्नाकरे । मेऽप्रमहीप्रदेशे इत्यत्र मे मम, अप्रमहीप्रदेशे
भूलोकस्य श्रेष्ठस्खले इत्यर्थः - i) पूर्वापेक्षयापि भेदवत्वेन अस्य तदानन्तर्यम् -- आ
ii) पूर्वापेक्षया अभेदवत्वेन -त ' भवति - आ