SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 160 मलंकारराघवे निष्कर्षः । अत्र अवच्छेदकोपकारविशेषणद्वयेन न पूर्वोक्तदोषप्रसक्तिरिति ध्येयम् । उदाहरणम् -- 'राम रत्नमयदिव्यभूषणै भूषितोऽसि मुकुटाङ्गदादिभिः । सर्वलोकरमणीयमूर्तिना भूषणानि भवता विभूषिरे' ॥ अत्र रामतदीयभूषणानाम् अन्योन्यालंकार्यालंकारकत्वम् । || अथ विचित्रालङ्कारः॥ । अस्यापि विरोधमूलम्वेन पेटिकायां संगतिः । विरोधमूलालंकारेषु पारिशेष्यादस्यावान्तरसंगतिः। ननु -- 'स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम्' इत्यलङ्कारसर्वस्वकारः । 'विचित्रं तत्प्रयत्नो यो विपरीत फलाप्तये' इति साहित्यचिन्तामणिकारः । 'विचित्रं स्वविरुद्धस्य फलावाप्त्यर्थमुद्यमः' . इति विद्यानाथः । 1 रथोद्धतावृत्तम् । 'रानराविह रथोद्धता लगौ ' इति तल्लक्षणं वृत्तरत्नाकरे । 'विरोधमूलत्वपेटिकायां - न 'फलाय तु इति - आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy