________________
भन्योन्यालङ्कारप्रकरणम्
'उपमातृमिः प्रविमलाञ्जनादिना
रघुनन्दनश्शिशुरभूदलंकृतः । रघुनन्दनोऽपि नयनाभिनन्दनो ।
विदधे तदीयहृदये मुहुर्मुदम् ॥ इत्यत्राप्यन्योन्यालङ्कारप्रसंगः । ननु- 'एकक्रियामुखेन परस्परं करणस्वे सति अन्योन्यालङ्कार' इति काव्यप्रकाशकारेणैवोक्तमिति चेत्तर्हि आश्रयभेदेन क्रियाभेदाऽवश्यभावात् द्वयोरेकक्रियांगीकारानौचित्यादसम्भवप्रसंगः । नान्वेक जातीयक्रियामुखेनेति विवक्षितमिति चेन्न । क्रियात्व. जात्या 'साजात्यस्य उपमातृभिरित्यत्रापि संभवेन अतिप्रसंगापत्तेः । ननु-- 'क्रियात्वावान्तरजात्या साजात्यं विवक्षितम्' इति चेतहि तादृशजात्यनंगीकारवादिनं प्रत्यसंभवापत्तिरितरभेदसाधनेऽसिद्धिस्स्यात् । अतो नेदमपि लक्षणं युक्तम् । यत्तु साहित्यचिन्तामणिकारलक्षणम् 'अन्योन्यमुपकारो यत्त. दन्योन्यं भवेद्विधे'ति, तदपि न युक्तम् । अन्योन्योपकारस्य प्रागुक्तभिन्नक्रियास्थलेऽपि 'सत्वेनातिप्रसङ्गात् । एकक्रियाजन्योपकारविवक्षायामुक्तप्रकारेणासम्भवस्तदवस्थः। एकजातीयक्रियाजन्योपकारविवक्षायामुक्तदोषतादवस्थ्य दुरपनयम् । तस्मादन्योन्यालकारलक्षणं दुर्निर्वचमिति चेत् , अत्रोच्यते -
येन यदवच्छेदकावच्छिन्नक्रियया यो उपक्रियते तस्य तदव च्छेदकावच्छिन्नक्रियायाः तेनोपकारजननमन्योन्यालङ्कारः' इति लक्षण. 1 ' मजुभाषिणीवृत्तम् । 'सजसाजगौ भवति मजुभाषिणी ' इति
तल्लक्षणं वृत्तरत्नाकरे। .. " जातिक्रिया - न
..... ३ सम्भूत्यस्य - न • सत्वेनाप्रसंगप्रसंगात् - न ... ' एवं यदवच्छेदका - आ