________________
158
अलंकारराघवे
अत्र रामकर्णमणिमयमकरकुण्डलधारणं तदीयगण्डयोरलंकरणमिति कार्यकारणयोः भिन्नदेशत्वम् ।
___ || अथ अन्योन्यालङ्कारः ॥ कार्यकारणयोः भिन्नदेशत्वनिबन्धनविरोधमूलाऽसंगत्यनन्तरं दौवारिकोत्पाद्योत्पादकनिबन्धनविरोधस्य जघन्यत्वात् तन्मूलाऽन्योन्यालंकारनिरूपण. मुचितमित्यवान्तरसंगतिः । विरोधमूलत्वेनास्य पेटिकासंगतिः । ननु
'परस्परं क्रियाजननेऽन्योन्यम्' इत्यलंकारसर्वस्वकारः ।
'तदन्योन्यं मिथो 'यत्रोत्पाद्योत्पादकता भवेत् ' इति विद्यानाथः । तदुभयमपि न युक्तम् ।
'श्रीरामचन्द्रस्य गुणानुगुण्यात्
सर्वागमास्तं प्रति भूषयन्ति । सर्वागमान्तानखिलानुभाव्य
सौरभ्यनिर्भारवहागुणांस्तान् ॥ इत्यादी असम्भवप्रसंगात् । तत्र वेदान्तरामगुणानाम् अन्योन्योत्पाद्योत्पादकत्वाभावात् । नन्वस्तु तर्हि ''क्रियया तु परस्परं वस्तुनोर्जननेऽन्योन्यम्' इति काव्यप्रकाशकारलक्षणम् । तत्र वस्तुनोः परस्परसाक्षाजनकत्वाभावेऽपि क्रियाद्वारा 'तथा जनकत्वसंभवादिति नोक्तासम्भवः इति चेत्तर्हि - .. ' 'यत्रोत्पाद्योत्पादकता'-इत्यतः 'अन्योन्योत्पाद्योत्पादकत्वाभावात्'
इत्यन्तो भागः 'न' प्रतौ लुप्तः ।। 'इन्द्रवज्रावृत्तमिदम् ‘स्यादिन्द्रवज्रा ततजास्ततो गौ' इति तल्लक्षणं वृत्तरत्नाकरे। 'क्रियामात्रं परस्परं वस्तुनोरन्योन्यमिति - आ तदा जनकत्वसंभवात् - आ