SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ भसङ्गत्यलंकारप्रकरणम् 155 'तयोस्तु भिन्नदेशत्वेऽसङ्गति रित्यलंकारसर्वस्वकारः । 'एषासङ्गतिरुक्ता हेतोः कार्यस्य भिन्नदेशत्वे' इत्येकावळीकारः । 'कार्यकारणयोर्मिनदेशत्वं स्यादसङ्गतिः' । इति साहित्यचिन्तामणिकारः । 'कार्यकारणयोभिनदेशत्वे सत्यसङ्गतिः' इति विद्यानाथः । तत्र द्वितीयतृतीयचतुर्थपञ्चमलक्षणेषु कारणात् कार्यस्य मिन्नदेशोत्पत्तिसिङ्गतिर्विवक्षिता, किं वा मिन्नदेशस्थितिः । नाद्यः । असम्भवप्रसङ्गात् । न हि महानसवृत्तिधूमध्वजः पर्वतनितम्बे ध्मं जनयति । ननु श्येनाद्यमिचारकर्म कर्तृगतं सदरातौ वधरूपं कार्य जनयतीति कार्यकारणयोभिन्नदेशत्वमपि दृष्टचरमेवेति चेत् , मैवम् । तत्रापि 'निःशस्त्रवत्वरूपफलं कर्तृगत, मेवेति न क्रियाफलयोभिन्नदेशस्वमित्यस्मत्तत्वचिन्तामणिखण्डने शास्त्रचूडा. मणौ प्रतिपादितत्वात् । श्येनाद्यभिचारकर्मजन्यकृत्यादेरेवारातिसंबन्धिनः फलदातृस्वमित्यन्यैरप्युक्तत्वात् । पक्षद्वयेऽपि कार्यकारणयोस्समानदेशत्वमेवे. त्यसम्भवः । न द्वितीयः । ..'वृद्धः पंक्तिरथो राजा साकेतनगरे स्थितः । 'युवापि रामो धर्मात्मा दण्डकारण्यमावसत् ॥' : इत्यत्रापि असङ्गत्यलङ्कारप्रसङ्गात् । तत्र कार्यस्य रामस्य कारणदशरथापेक्षया "भिन्नदेशे स्थितत्वात् । अत एव 'कारणात् मिन्नाश्रयगतत्वेनोपनिवन्धः एव असङ्गति 'रित्येकावळीकारवचनं परास्तम् । उक्तोदाहरणेऽपि तत्प्रसङ्गात् । नन्वस्तु तर्हि काव्यप्रकाशकारलक्षणम् । तस्यायमर्थः – 'हेतुफलभूतयोः 1 शस्त्रवत्वरूपफलं-आ * भिन्नदेशस्थितत्वात्--त,न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy