SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 156 अलंकारराघवे केनाप्यतिशयेन नानादेशतया युगपदवभासनमसङ्गति'रिति । 'तत्रातिशयेन इत्युक्त्या नोक्तोदाहरणेऽतिप्रसङ्गः । नानादेशतयेत्यनेन कार्यकारणयो भिन्नदेशस्थितिप्रकाशनं विवक्षितमिति नासम्भवोऽपीति चेत् तदपि न युक्तम् । • 'पश्याम्ययस्कान्तमणेश्वलनं चलयत्ययः । स्वभावोऽयम्' इत्यत्राप्यसत्यलङ्कारप्रसङ्गात् । तत्र अयस्कान्त मणेः चलनकारणभूतं तत्कायस्य अतिनिकटगतायः शलाकाचलनस्य केनचिदतिशयेन भिन्नदेशतया प्रकाशनात् । न चेष्टापत्तिः । तत्र स्वभावोक्तरेव जागरूकत्वात् । ननु तत्रापि यां दिशं प्रत्ययस्कान्तमणिश्वलतीति न तयोभिन्नदेशत्वमिति चेत्तर्हि, 'निर्याते नगरात्तूर्ण कुम्भकर्णे महाबले । कपयो विमुखास्सर्वे नानादेशान्प्रदुद्रुवुः ॥' इत्यत्रापि असङ्गत्यलङ्ककारप्रसङ्गः । तत्र कुम्भकर्णनिष्क्रामणकपिपलायनयोभिन्नदेशत्वप्रकाशनात् । तस्मादसंगत्यलङ्कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते - 'कार्यकारणयोः केनाप्यतिशयेनासङ्गतत्व प्रकारकं युगपद भिन्नदेशस्थत्वप्रकाशनमसङ्गतिरिति लक्षणनिष्कर्षः। तत्र असङ्गतत्वप्रकारकमित्यनेन न पूर्वोक्तातिप्रसङ्गः । तत्र भिन्नदेशस्थत्वप्रकाशनस्य असङ्गतत्वप्रकारत्वाभावात् । 1 अत्रातिशयेन-न ' ' भिन्नदेशस्थितिप्रकाशनमित्यारभ्य' ' अतिनिकटगतायः शलाका' इत्यन्तो भागः 'न' प्रतौ लुप्तः। ' मणौ यच्चलनकारणभूतं-न 'प्रकाशकरणं युगपत् - आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy