________________
विभावनालंकारप्रकरणम्
6
कार्यस्य सत्वात् । न च तत्रापि विभावनेति वाच्यम् । रम्यता पर्यवसानेन तस्या एव बलवत्वात् । किञ्च तमांस्यरात्रीणि समुद्भवन्ती 'त्यत्र रात्रि प्रति भीतिशोकादिनिमित्तं तमो न कार्यमित्यसंभवश्च । ननु तदपि तमस्त्वावच्छेदेन रात्रिं प्रत्यपि कार्यमेवेति चेन्न । `अनुगततमस्त्वस्याभावात् । ननु दिग्विवेकप्रतिबन्धकत्वरूप तमस्त्वमनुगतमस्त्येवेति चेतहिं गोशब्दवाच्यत्वावच्छेदेन भूमेरपि वालाक्यावयव कार्यत्वापत्तिः । तस्मान्नेदं लक्षणं युक्तम् । एतेन लक्षणान्तरे अपि निरस्ते बोध्ये । तस्माद्विभावनालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते
यनिष्ठकारणतानिरूपित कार्यताश्रयत्वेन यद्बुद्धिःस्थं तेन विना तस्यास्तित्वमात्रोपनिबद्धो विभावनालंकारः ' इति लक्षण निष्कर्षः । अत्र यद्यपि
1
2
4
"
'तमस्यरात्रीणि समुद्भवन्ति '
''अयज्ञः स्वर्लोकः सुकृतमतपः क्लेशसुभगम् '
प्रतापरुद्रेण पराजितानां प्रत्यर्थिनां विन्ध्यगुहागतानाम् । तमांस्यरात्रीणि समुद्भवन्ति तेजांसि घत्रेष्वपि नोद्भवन्ति ॥
153
अत्र तमः प्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । विनापि तस्योत्पत्तिर्निबद्धा । अप्रसिद्ध कारणं शोकाद्यस्त्येव । तथा अहस्सु कारणेषु मत्स्वपि तेजसो अनुत्पत्तिरिति । निष्प्रतापत्वादिनिमित्तमस्त्येव । (प्रतापरुद्रीये - अर्थालङ्कारप्रकरणे विभावानालङ्कारोदाहरणम् )
निवन्द्वो
-न
अयज्ञः स्वर्लोकः सुकृतमतपः केशसुमगं
. सुधासारोऽनम्रः फलम कुसुमश्रीसहचरम् । अशौर्य साम्राज्यं निधिरखननायाससुलभो
नृसिंह क्षोणीन्द्रो नयनपथमस्माकमगमत् ॥