________________
152
1
इति विद्यानाथः ।
तत्र हेतुरूप क्रियायाः प्रतिषेधेऽपि फलप्रकाशनं विभावनेति काव्यप्रकाशकारलक्षणार्थः । तन्न युक्तम् । • तमांस्यत्रीणि समुद्भवन्ती 'त्यत्र 'अव्याप्तेः । तत्र रात्रिरूपकालप्रतिषेधेन क्रियाप्रतिषेधाभावात् । न च कालोऽपि तपन परिस्पन्दात्मक एवेति वाच्यम् । तदुन्नायकद्रव्यविशेष एव काल इति शास्त्रान्तरसिद्धत्वात् । अतस्तल्लक्षणं न युक्तम् । ये पुनरलंकारसर्वस्वकारविद्यानाथलक्षणे तेऽपि न युक्ते। कारणेन विना कार्योत्पत्तेरभावेन असम्भवप्रसङ्गात् । ननु प्रसिद्धकारणेन विना कार्योत्पत्तिर्विभावनेति चेदुच्यते - किं सर्वप्रसिद्धकारणेन विनेति विवक्षितं कतिपयप्रसिद्ध कारणेनेति विवक्षितं वा ? नाद्यः । सर्वप्रसिद्धकारणस्यैव असम्भवेन असंभवप्रसङ्गात् । तत्सम्भवे वा सर्वप्रसिद्धकारणस्या सर्वज्ञाविज्ञायत्वेन इतरभेदसाधने अज्ञानासिद्धिप्रसङ्गात् नेतरः । ' तमांस्यरात्रीणि समुद्भवन्तीत्यादावपि शोकभीत्यादिरूपकारणस्यापि कतिपयप्रसिद्धत्वेन अव्याप्तिप्रसंगात् । नन्वत्र 'उत्पत्तिशब्देन कार्यस्य अस्तित्वमेव विवक्ष्यते, नोत्पत्तिरिति नोक्तदोषः ' इत्येकावळीकारः इति चेत् उच्यते, तथाऽपि प्रसिद्धेतर कारणसत्येन कार्यस्य अस्तित्वं विवक्षणीयम् । अन्यथा विरोधप्रसङ्गात् । तथा च कतिपयप्रसिद्ध कारणत्वेनैव 'विभावनास्थलकार्यस्यैव सत्वात् असंभवप्रसङ्गः । सर्वप्रसिद्ध विवक्षायामप्यसंभवप्रसङ्ग इति प्रागुक्तमेव । किञ्च मुखकमलविकासो विद्यते चन्द्रिकायाम्' इत्यादि विनोक्तावतिव्याप्तिप्रसङ्गः । तत्र ' प्रसिद्धत्वकारकत्वेन मुखकमलविकासरूप
1
6
2
8
' कारणेन विना कार्योत्पत्तिस्स्याद्विभावना'
4
अतिव्याप्तेः
प्रसिद्धत्वेतर कारणत्वेन - आ
1
आ
अलंकार राघवे
विभावनास्थलकार्यस्य सत्वात् - न
प्रसिद्धेतरकारकत्वेन – न