________________
समालङ्कारप्रकरणम्
149
'तद्विपर्यस्समम्' इत्यलङ्कारसर्वस्वकारः । 'अस्य प्रथमभिदायाः सममिति कविभिर्विपर्यये कथितम्'
इति विद्याधरः । 'योग्ययोर्यदि संबन्धो यत्र स्यात् तत्समम्'
इति साहित्यचिन्तामणिकारः । ‘सा समालंकृतियोंगो वस्तुनोरनुरूपयोः' इति विद्यानाथः ।
नैतानि लक्षणानि युक्तानि । सहोक्तलकारे अतिव्याप्तेः । तत्र सहार्थेनान्वयस्य अनुरूपसंघटनारूपत्वात् । अन्यथा तस्य कल्पितौपम्य पर्यन्तत्वं न स्यात् । तनु तत्र सहार्थेनान्वितस्येतरस्य च प्राधान्याप्राधान्याभ्यामानुरूप्यं नास्तीति चेत्, तर्हि, तादृशानुरूप्याभावप्रसङ्गात् । तस्मात् समालङ्कारलक्षणं दुर्निर्वचमिति चेत् उच्यते -
''अनतिशयोक्तिमूलत्वे सत्यनुरूपघटनम्,
अनौपम्यपर्यन्तत्वे सत्यनुरूपघटनं वा' समालंकार इति लक्षण. निष्कर्षः । उदाहरणम् -
'श्रीराममुद्रे सहचारिणी मां विचिन्वती दूरमुपागतासि । 'तवैव योग्या खलु माननीये मत्प्राणनाथांगुलिवासकेलिः ॥ अत्र जनकात्मजारामांगुळीयकयोस्सरूपयोयेगिः ।
1 'अनतिशयोक्तिमूलत्वे सत्यनुरूपघटनम् ' अनौपम्य इति भागः • 'आ' प्रतौ लुप्त। तथैव-आ। ' 'मत्प्राणनाथाय च मां निवेदय' इति 'आ' प्रतौ चतुर्थपादः दृश्यते । 'उपजातिवृत्तमिदं पद्यम् -
अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम ।। इति वृत्तरत्नाकरे. उपजातिवृत्तलक्षणम् ।