________________
148
मलछारराघवे
ii) द्वितीयं यथा - पण वितन्वन् भवती जिगीषया
पराजितो देवनलीलया मयां । विवर्णवक्त्रोऽजनि राघवः पुरा
तदा गृहीता भवसि स्म मुद्रिके' । अत्र विजिगीषा रामस्य जयानुत्पत्य पराजय एवोपनिबध्यते । ii) तृतीयं यथा - पतिव्रताया मम राममुद्रे
रक्षोपहारं विधिनार्पितायाः । प्राप्तिः किमिष्टा वद राघवस्य
त्वमिङ्गितज्ञासि तदन्तिकस्था ॥ अत्र पतिव्रताया रक्षोपहारत्वकथनाद्विरूपयोः घटनम् ।
॥ अथ समालङ्कारः ॥ विषमवैधय॒ण बुद्धिःस्थत्वात् 'समालकारनिरूपणमुचितमित्यवान्तरसङ्गतिः । ननु - 'समं योग्यतया योगो यदि संभावितः क्वचिद्'
इति काव्यप्रकाशकारः ।
वंशस्थवृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरौ' इति वृत्तरत्नाकरे तल्लक्षणम् । 'उपजातिवृत्तम् । समालङ्कारनिरूपणमित्यस्य प्रासङ्गिकसङ्गतिः-त,न