SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ विषमालंकारप्रकरणम् लङ्कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते - 'विरुद्धकार्योत्पत्तिरूपत्वानर्थोत्पत्तिरूपत्वाधिकरणत्वे विरूपघटनारूपत्वानधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणं विषमालंकार' इति लक्षणनिष्कर्षः । अत्र विरूपघटना रूपविषमालङ्कारे विशेष्यसत्वेऽपि सत्यन्तविशेषणासत्वाल्लक्षणानुगतिः । विरुद्ध कार्योत्पत्यनर्थोत्पत्तिरूपयोर्विषमालंकारयोः विशेषगतः तद्रूपत्वसत्वेऽपि विशेष्याभावाल्लक्षणानुगतिः । न चोभयाभावप्रयुक्तविशिष्टाभावादितरालंकारेष्वतिव्याप्तिः । एतद्विशेषणविशेष्योभयाभावानधिकरणमित्यनेन तद्व्यावृत्तिरिति निर्मलम् | ― निबध्यते । त्रिविधः । यत्र 'कारणाद्विरुद्ध कार्योत्पत्तिः तदेकं विषमम् । स्वारसिककार्या नुत्पत्तौ अनर्थोत्पत्तिः द्वितीयं विषमम् । विसदृशयोर्वस्तुनोः सङ्घटनं तृतीयं विषमम् । i ) तत्राद्यं यथा सुवर्णसन्मणिबन्धरम्ये त्वं राममुद्रेऽवसि मां भवत्याः । 147 शरत्प्रसन्नेन्दुसितामुदीतां सति ' कारणात्कार्योत्पत्तिः - आ 2 गायन्ति ते यक्षरा 'गुणाळिम् ॥ अत्र मणिमयसुवर्णमुद्रिकायाः 'धवलगुणावळीरूप विरुद्ध कार्योत्पत्ति · स्वामीष्ट कार्योत्पत्तिर्द्वितीयं विषमम् - आ * उपजातिवृत्तमिदम् । 46 धवलगुणावळीरूप' इत्यत्र 'धवल' इति शब्दः 'आ' प्रतौ नास्ति ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy