________________
150
मलङ्ककाररावे
|| अथ अधिकालङ्कारः ।। ___ अस्य विरोधमूलत्वेन पेटिकासङ्गतिः । अनुरूपयोगरूपसमालङ्कार. निरूपणानन्तरम् आश्रयाश्रयिणोरानुरूप्याभावरूपस्याधिकालङ्कारस्य बुद्धिः स्थत्वात् प्रसङ्गादवान्तरसङ्गतिः । ननु -
'महतोः यन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्यधिकं तु तत् ॥
इति काव्यप्रकाशकारः । 'अधिकमिदं गदितं तत् यत्राननुरूपता आश्रयायिणोः'
इति बिद्याधरः । 'आधाराधेययोरानुरूप्याभावोऽधिको मतः' इति विद्यानाथः । 'स च आश्रयः महत्त्वाल्पवाभ्यां द्विविधः । i) तत्र प्रथमो यथा - 'यो मौळिहाराङ्गदकुण्डलायै
विभूषितोऽस्थादधिरत्नपीठम् । ब्रह्माण्डभाण्डान्यखिलानि तस्मिन्
रामे समालोकत सात्विकोषः। 1 'सच' इत्येतस्मात् पूर्वम् इति विद्यानाथः' इत्यनन्तर 'प्रकृताधिकालंकारस्य लक्षणखण्डनमण्डनादिविषयः भवेदिति पूर्वोत्तरग्रन्थसरण्यनुसारात् ऊझते । स भागः सर्वासु प्रतिषु
लुप्तः इति प्रतिभाति । * उपजातिवृत्तम् । ' 'आ' प्रतौ ' समालोकिततात्विकौघः' इत्यस्ति । ' सास्विकानाम् ओघः समूहः सात्विकौघः सज्जनगणः इत्यर्थः ।