________________
140
मलद्वारराघवे
लक्षणानुगतिः। एतद्विशेषणविशेष्योभयाभावानधिकरणमित्यनेन व्याघातस्थलीयविरोधाभासेऽतिव्याप्तिनिरस्ता । तस्य उभयाभावानधिकरणत्वात् । प्रकृते त्वेकैकाभासरूपत्वसत्वान्न विशेषणविशेष्योभयाभावाभासरूपत्वानधिकरणत्वमिति निर्मलम् ।
स च दशविधः -
जाते॥तिक्रियागुणैः सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्रव्याभ्यां सह विरोधे द्वौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेद इति । तत्र जातेः जात्या क्रियया च विरोधो यथा -
दशानननारेगनामिपंकोऽ.
प्युज्जृम्भते ते तिलको ललाटे। श्रवःस्फुरत्कुण्डलयोश्च पद्म
__ रागोऽपि भानुप्रतिपक्षगामी' || . . अत्र पूर्वार्द्ध जात्योर्विरोधः । मृगनाभिपकोऽपि तिलक इति विरोधात् । उत्तरार्द्ध जातिक्रिययोः विरोधः । पद्मरागस्य भानुप्रतिपक्षगमन, विरोधात् । अत्र श्लेषमूलो विरोधः । 1 पूर्वार्द्ध रावणशत्रोः ते ललाटे हे राम ! मृगनाभिपङ्कः अपि तिलक:
श्रेष्ठः भवतीत्यनेन जात्योः विरोधः पकस्य श्रेष्ठाभावरूपत्वात् । ललाटे मृगनाभिपकः तिलकः भवति ललाटचिह्न भवतीत्यनेन विरोध. परिहारः । उत्तरार्द्ध प्रकाशमानकर्णकुण्डलयोः पद्मरागोऽपि पद्मानां रागः अनुरागः अपि सूर्यप्रतिपक्षगामी इत्यनेन विरोधः । सूर्यानु. गमनमेव पद्मानां प्रसिद्धत्वात् । अतः पद्मरागः अपि कर्णकुण्डलयोः पद्मरागमणिरपि भानुप्रतिपक्षगामीत्यनेन सूर्यादपि अतिशयप्रकाशकत्वं पद्मरागमणेः इति कथनादविरोधः । उपजातिवृत्तम् ।।