________________
विरोधालड्कारप्रकरणम्
139
. 'ननु तथापि जात्यादेः जात्यादिना सहैव विरोधाभासो विरोधलक्षणे विवक्षित इति नोक्तातिव्याप्तिः । तत्र तथा नियमाभावात् इति चेदुच्यते । वक्ष्यमाणप्रकारेण दशविरोधाभासमुच्ययो वा विरोधालकारः। तदन्यतर. विरोधाभासो वा । नाद्यः । असंभवप्रसंगात् । कुत्रापि दशविधविरोधा. भासे पनिबन्धासंभवात् । न द्वितीयः । अन्यतरशब्देनैकैकविवक्षायां तदितर. रिरोधालबारे अव्याप्तेः । सर्वविवक्षायाम् उक्तदोषानतिवृत्तेः । तस्मान्नैवं विरोधलक्षणमिति चेदत्रोच्यते -
'जात्यादेः जात्यादिमिः सह विरोधाभासरूपत्वाधिकरणत्वे सति द्रव्यस्य द्रव्येण सह विरोधाभासरूपत्वामधिकरणमेतद्विशेषणविशेष्योभयाभावानधिकरणविरोधाभासो विरोधालङ्कारः'
. इति लक्षणनिष्कर्षः । अत्र वक्ष्यमाणदशविरोधाभासेषु जात्यादेः जात्यादिमिः सह विरोधाभासः 'एका कोटि । द्रव्यस्य द्रव्येण सह विरोधाभासे सत्यन्तविशेषणाभावात् लक्षणानुगतिः द्रष्टव्या । जात्यादेः जात्यादिमिः सह 'विरोधा. भासेषु विशेषणसत्वेऽपि द्रव्यस्य द्रव्येण सह विरोधाभासरूपत्वविशेष्याभावात्
..' ननु तथापि इत्यारभ्य 'गुणस्य गुणेन सह विरोधो यथा-इति पर्यन्तो
भागः 'आ' प्रतौ न दृश्यते । 'रेऽतिव्याप्तिः-न . .
'एककोटि:-आ _ विरोधाभासेषु विशेषणसत्वेऽपि द्रव्यस्य द्रव्येण सह विरोधाभास.
रूपत्वविशेष्याभावात् लक्षणानुगतिः' इत्यस्मिन् भागे 'आ' प्रतो
विरोधाभासरूपत्वाधिकरणत्वे सति द्रव्यस्य द्रव्येण सह विरोधा. भासरूपत्वानधिकरणम्' इत्येवं रूपेण परिदृश्यते । ......