________________
स्वभावोसयलंकारप्रकरणम् ।
137 || अथ स्वभावोक्तिः ॥ स्वभावान्योक्तिनिरूपणानन्तरं स्वभावोक्तिनिरूपणमुचितमित्यवान्तरसंगतिः । तत्र - ‘स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्'
इति काव्यप्रकाशकारः । 'सूक्ष्मवस्तुस्वभावयथावद्वर्णनं स्वभावोक्तिः'
- इत्यलंकारसर्वस्वकारः । 'वस्तुस्वभाव उच्चैयः स्यात्सूक्ष्मो यथावदेतस्य । यद्वा वर्णनमेषा कथिता कविमिः स्वभाकोक्तिः॥
इति विद्याधरः। सूक्ष्मवस्तुस्वरूपस्य यद्यश्चात्स्येन वर्णनम् । 'सा स्वभावोक्तिरुद्गीता बहुधा स्यात् क्रियादिमि:'
इति साहित्यचिन्तामणिकारः । 'स्वभावोक्तिरसौ चार यथावद्वस्तुवर्णनम्' इति विद्यानाथः ।
अत्र कविदृष्टान्यूनानतिरिक्तपरं 'यथावत्पदं सूक्ष्मपदमपि कविमात्र. दृष्टपरमिति द्रष्टव्यम् । उदाहरणम् - 'आरूढः कनकासनं मणिमयं पीताम्बरालंकृतो
. सन्धिप्राङ्गदहार कुण्डलधरः श्वेतातपत्राङ्कितः । चश्चचामरवीजितोऽमरवरैर्ब्रमेन्द्रमुल्यैवतः ,
सीताको हनुमत्पदापितको राम्रो लुलोके मनैः ॥
'यथा तत्पदं -न 'मण्डलधरः - आ 'शार्दूलविक्रीडितवृत्तम् ।