SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 136 अलङ्कारराघवे तत्र तावत् काव्यप्रकाशकारलक्षणे वचः शब्देन प्रतिपादकवाक्यं वोच्यते, अभिधानं वा । नाद्यः । समासोक्तावतिव्याप्तिप्रसङ्गात् । तत्र अवगमनव्यापारेण प्रस्तुत प्रतिपादकत्वात् । न द्वितीयः । गम्यस्याभिधानासंभवेन असम्भवप्रसंगात् । ननु तथापि कार्याभिधानम्या गम्यस्याप्यभिधानं घटत एवेति नोक्तदोष एवेति चेदुच्यते । कार्याभिधानभंग्या कारणस्याव - गमनमेव नाभिधानं, न हि धूमोऽस्तीत्यभिधानं वह्निरभिधानं सम्भवतीति असम्भव एव । एतेन अलंकार सर्वस्वकारलक्षणमपि निरस्तं बोध्यम् । यत्तु विद्यानाथलक्षणं ' नाऽसम्भवः गम्यते ' इत्यनेन तद्व्यावृत्तेः । नापि समासोक्तावतिव्याप्तिः । प्रस्तुतत्वेन सम्बन्धमित्यनेन तद्व्यावृत्तेः । नाप्यप्रस्तुतप्रशंसा भेदेऽतिव्याप्तिः । प्रस्तुतादित्यनेन तद्व्यावृत्तेः । तथापि प्रस्तुतकारणावगमनस्य ध्वनिरूपत्वेनालंकारत्वाभावादितरभेदसंबन्धने 'असिद्धिप्रसंग: । न ह्यलंकारस्य ध्वनिरूपत्वं सम्भवति । गुणप्रधानभावविरोधात् । तस्मात् पर्यायोक्कालंकारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते - ' प्रस्तुतकार्यवर्णनया अप्रस्तुतकारणावगमनमप्रधानावस्थापन सत् पर्यायोक्तमलंकारः । तस्याप्रधानावस्थायां न ध्वनिरूपत्वमिति न गुणप्रधानभावविरोधः । नाप्युक्तासिद्धिः । उदाहरणम् - ――――― " रामभक्तगृहे सूक्ष्मगवाक्षविवराध्वमिः । विनिर्यान्ति सदा सान्द्रदिव्यमाणिक्यकान्तयः ॥ अत्र प्रस्तुत कार्यभूतगवाक्षेभ्यः दिव्याभरणमणिकान्तिनिष्क्रमणेन प्रस्तुतप्रकरणम् । दिव्याभरणालंकृतस्य रामचन्द्रस्य सन्ततभक्त गृहसंवासः प्रतीयते । -0 1 अतिप्रसंग : - आ 3 नदाः सान्द्रं दिव्य - आ 1 भावाविरोधः - आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy