________________
134
भलंकारराघवे
ननु -- ''विशेषोक्तिरखण्डेषु कारणेषु फलावचः'
इति काव्यप्रकाशकारः । 'कारणसामध्ये कार्यानुत्पत्तिर्विशेषोक्तिः'
___ इत्यलंकारसर्वस्वकारः। 'यदि कारण पाकल्ये कार्यसिद्धिस्तदा विशेषोक्तिः'
इति विद्याधरः । 'कार्याभावे विशेषोक्तिः कारणेष्ववसत्वपि' .
: इति साहित्यचिन्तामणिकारः । 'तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति विद्यानाथः ।
नैतानि लक्षणानि यथा श्रुतानि युज्यन्ते । सत्यां सामग्र्यां कार्य. विलम्बाभावेन कारणपौष्कल्ये कार्यानुत्पत्यसम्भवात् । कार्यानुत्पत्तौ कारणपौष्कल्यासम्भवाच्च असम्भवप्रसंगात् । ननु सत्यां सामग्र्यां वस्तुतः कार्या. नुत्पत्तिर्विशेषोक्तिः येनासम्भवि लक्षणं स्यात् । किन्तु कमपि विशेष प्रकाशयितुं सति कारणपौष्कल्ये कार्यानुत्पत्युपबन्धनं विशेषोक्तिरिति चेत् सामग्री. सद्भावेऽपि यन्नोत्पद्यते न तत्कार्यमिति कार्यानुत्पत्युपनिबन्धनस्याप्यसंभावितत्वात् । तस्मादिदं विशेषोक्तिलक्षणं दुर्निचमिति चेदत्रोच्यते - ...: 'यादृशपदार्थस्तादृशपदार्थोत्पत्तिः प्रसिद्धा, तादृशपदार्थे सत्येव तादृशपदार्थानुत्पदत्युपनिवन्धनेन कस्यापि विशेषस्य प्रकाशनं विशेषोक्तिरिति लक्षणनिष्कर्षः।' अत्र ' तन्तुषु सत्सु पटो नोत्पद्यते' इत्यादिवाक्ये विशेषोक्तिप्रसंगनिवृत्यर्थ कस्यापि विशेषस्य प्रकाशनमित्युक्तम् ।
' 'विशेषोक्तिरखण्डेषु' इत्यारभ्य 'निगद्यत' इति विद्यानाथः इत्यन्तो भागः 'न' प्रतौ लुप्तः ।