________________
सामाम्बालारप्रकरणम्
129
'सामान्यालङ्कारत्वं वा। साधर्म्यजन्यैक्यव्यतिरिक्तवस्त्वन्तरक्यत्वं वा । नाद्यः । तस्य अतिरिक्तवृत्तित्वेन तदनवच्छेदकत्वात् । न द्वितीयः । आत्माश्रय. प्रसंगात् । न तृतीयः। साधर्म्यजन्यैक्य व्यतिरिक्तत्वस्य दुर्निर्वचत्वात् । जन्यतायाः दुरधिगमत्वे तद्घटितलक्षणमपि दुरधिगममिति सामान्यालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते --
___ 'रूपत्वादिधर्मावान्तरधर्मेण यद्गुणसाम्यं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिवस्त्वन्तरेक्यकथनं सामान्यालङ्कारः' इति लक्षणनिष्कर्षः । प्रतियोगितावच्छेदकं तु, साधर्म्यनिबन्धनवस्त्वन्तरक्यव्यतिरिक्तं वस्त्वन्तरत्वम् । न च अन्योन्याश्रयः । तदा प्रतियोगितावच्छेदकनिर्वचनात् गुणसाम्यजन्यतावच्छेदकनिर्वचनेन अन्योन्याश्रयदोषः । तादृशावच्छेदकज्ञानस्य गुणसाम्यजन्यताज्ञानाधीनत्वात् । न च प्रागुक्तरूपकविशेष अतिव्याप्तिः । गुणसाम्यत्वावच्छिन्नगुणसाम्यव्यतिरेकप्रयुक्तेऽतिविवक्षितत्वात् । रूपके साधर्म्यत्रावच्छिन्त्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगिवस्त्वन्तस्यसत्वात् । तेन न कोऽपि दोषः । उदाहरणम् -
भूषेन्द्रनीलविषि रामदेह.
द्योतेन तादात्म्यमुपागतायाम् ।
मुनिव्रजो मुक्तिमपेक्षमाणो .. ....... जनिं तदीयां सकलाममंस्त ॥ .
अत्र रामशरीरप्रकाशे विद्योतमाने भूषणेन्द्रनीलत्विषां तदैकात्म्यम् ।
1 'सामान्यालकारत्वं वा' इति पदद्वयं 'न' प्रतौ लुप्तम् । * व्यतिरिक्तत्वस्य' इत्यारभ्य ‘वस्त्वन्तरेक्यकथनं सामान्यालङ्कारः'
इत्यन्तो भागः 'न' प्रतो लुप्तः । उपजातिवृत्तम् ।