________________
128
..
मलकारराधने
_ नैतानि 'सर्वाणि लक्षणानि संभवन्ति । विचारासहत्वात् । तथाहि किमत्र गुणसाम्येन वस्त्वन्तरेक्यं वा । वास्तवं किं वा । शाब्दं का । नाद्यः । असंभवप्रसंगात् । नेतरः । 'विजृम्भिता रावणवैरिकीर्तिमन्दाकिनी सर्वजगत्सु शुभ्र'त्यादिरूपकेऽति व्याप्तेः । तत्र धावळ्यगुणसाम्येन ऐक्यप्रतिपादनात् । ननु तत्र साधम्र्येणैक्यप्रतीतिः न गुणसाम्येनेति चेत् सत्यम् । तदपि गुणसाम्यनिबन्धनरूपकविशेषे प्रागुक्तातिव्याप्तिः दुरवस्थैव । ननु तत्रापि गुणसाम्यत्वेन नाऽभेदः । किन्तु साधर्म्यत्वेनैवेति चेत्तर्हि वस्त्वन्त. कात्म्यापादक गुणसाम्ये गुणत्वजात्या साम्यं विवक्षितं. किं वा तदवान्तरजात्या, "रूपत्वाद्यवान्तरजात्या, रूपत्वादवान्तरधर्मेण वा.। नाद्यः । न द्वितीयः । न तृतीयः ।
___ गुणत्वतदवान्तरजात्यनङ्गीकारवादिनं प्राभाकरं प्रति इतरभेदसाधनेऽ. न्यतरासिद्धिप्रसंगात् । अन्त्येऽपि रूपत्वादिधर्मावान्तरधर्मेण यद्गुणसाम्यं तजन्यवस्त्वन्तरैक्यं सामान्यमिति फलितोऽर्थः स्यात् । तथा च तादृग्गुणसाम्यजन्यतावच्छेदकं किञ्चिदस्ति न वा । नान्त्यः । तदभावे 'तजन्यत्वस्यैव परिच्छेत्तुमशक्यत्वेन इतरभेदसाधने अज्ञानाऽसिद्धिप्रसङ्गात् । आये किं तदिति वाच्यम् । वस्त्वन्तरेक्यत्वं वा । .
• सर्वाणि' इति पदं 'आ' प्रतौ नास्ति । ' व्याप्त्यापत्तेः-त,न ''धावल्यगुण' इत्यारभ्य 'गुणसाम्ये' इत्यन्तो भागः 'न' प्रतौ लुप्तः। 'गुणसाम्यगुणजात्या-आ ' 'रूपत्वाद्यवान्तरजात्या' इति पदं 'न' प्रतौ न विद्यते। • सामान्यमित्यारभ्य ' वस्त्वन्तरेक्यत्वं वा' इति पर्यन्तं 'त' प्रतौ मध्ये
भागः लुप्तः । ' तजन्यत्वेनैव-आ .