SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सामान्यालङ्कारप्रकरणम् 127 अत्र भूषणानां सहजसौन्दर्यमागन्तुकेन रामाजसंपर्कलब्धसौन्दर्येण तिरोधानम् । ॥ अथ सामान्यलङ्कारः॥ ... वस्त्वन्तरकतारूपसामान्यालकारेऽपि स्वरूपनिगृहनसंभवात् तस्याप्युक्तिपेटिकायां 'प्रासङ्गिकी सङ्गतिः । मीलने तिरोधानस्य स्फुटत्वात् , अत्र च तिरोधानस्य कल्प्यत्वात् तदनन्तरमेतन्निरूपणमुचितमित्यवान्तरसङ्गतिः । ननु - 'प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात् तत्सामान्यमिति स्मृतम् ॥' इति काव्यप्रकाशकारः । 'प्रस्तुतस्य अन्येन गुणसाम्यात् ऐकात्म्यं सामान्यम्' इत्यलद्वारसर्वस्वकारः । 'साधारणगुणयोगाद्यत्र प्रकृतस्य वस्तुसंवलितम् । न विभावयितुं शक्यं तत्सामान्य समाख्यातम् ॥' ___ इत्येकावळीकारः । 'सामान्य गुणसंयोगादन्येनैकात्म्यकल्पनम्' इति साहित्यचिन्तामणिकारः । 'सामान्य गुणसाम्येन यत्र वस्त्वन्तरकता' इति विद्यानाथः । प्रसङ्गे सङ्गति-आ 'ऐकात्मसमर्थन सामान्यम्-आ,त ..
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy