________________
मीनालङ्कारप्रकरणम्
125 .. 'वस्तुना वस्त्वन्तरनिगहनं मीलितम्'
इति अलबारसर्वस्वकारः। 'आगन्तुकेन वा तुल्यलक्षणं सहजेन वा । तुल्येन वस्तुना वस्तु निगृह्यते मीलितं स्मृतम् ॥'
। इति साहित्यचिन्तामणिकारः । 'स्वाभाविकमागन्तुकमथवा वस्त्वन्तरं तिरोधते । यस्मिन् किश्चन वस्तु ज्ञेयं तन्मीलितम् ॥'
इति विद्याधरः। ' मीलनं वस्तुना यत्र वस्त्वन्तरनिगहनम्'
इति विद्यानाथः । ... अत्र न तावदलङ्कारसर्वस्वकारविद्यानाथलक्षणे युक्तं । यथा श्रुते व्याजोक्तावतिव्याप्तेः। ननु प्रबलवस्तुना वस्त्वन्तरनिगूहनं मीलितमिति विवक्षितत्वान्नोक्तदोषः । तत्र ध्याजेनैव निगहनादिति चेहि तद्गुणालकारेऽ. तिव्याप्तेः। तत्रापि 'प्रबलान्यगुणरूपवस्तुना स्वगुणरूपवस्त्वन्तरनिवहन. संभवात् । अतो नेमे लक्षणे युक्ते। शिष्टलक्षणत्रयमपि वक्तव्यम् । सहजेनागन्तुकतिरोधानं वा मीलितम् , अंगन्तुकेन सहजतिरोधानं वा, समुच्चितं वा, अन्यतरद्वा । नाद्यः । आगन्तुकेन सहजतिरोधानरूपमीलिते अव्याप्तः । न तृतीयः । उभाभ्यामुभयनिरूपिततिरोधानस्यैव तत्रासंभवात् असंभवापत्तेः । संभवे वा एकेन तिरोधानरूपमीलिते अव्याप्तिर्वज्रलेपत्वात् । न चतुर्थः । अन्यतरशब्दार्थस्य दुर्निर्वचनात् । तस्मात् मीलनालझारलक्षणं दुर्निचमिति चेत् अत्रोच्यते -
प्राबल्यगुणरूपवस्त्वन्तरनिगहनसंभवात्-आ : ' अव्याप्तिः -त