________________
प्याजोक्स्यलकारप्रकरणम्
123
। तत्र द्वितीयतृतीयचतुर्थपञ्चमलक्षणानि तावन्न युक्तानि । मीलनालकारे अतिव्याप्तेः । तस्यापि वस्त्वन्तरेण वस्त्वन्तरनिगृहनरूपत्वात् । ननु व्याजोक्तिलक्षणे व्याजेन निगूहनं विवक्षितम् । मीलने तु प्रबलवस्वन्तरे. णेति न तत्राऽतिव्याप्तिरिति चेन्न । व्याज प्रत्यपि वस्त्वन्तर निदर्शनस्यैव कारणत्वेन वस्त्वन्तररूपत्वेन वस्त्वन्तरेणैव व्याजद्वारा व्याजोक्तावपि निगूहनसंभवात् तद्दोषतादवस्थ्यात् । वस्तुतस्तु व्याजस्यापि वस्त्वन्तररूपत्वेन वस्त्वन्तरेणैव तत्रापि निगूहनमित्यति व्याप्तिरनपायैव । ननु तथापि मीलने प्रबलवस्तुना 'निगूहन, विपक्षे व्याजोक्तौ त्वप्रबलेनेति नोक्तदोष इति चेन्मैवम् । व्याजरूपस्यापि वस्तुनः प्राबल्याभावे वस्त्वन्तर निमूहनाऽसंभवेन तत्र प्राबल्यावश्यंभावात् । अत एव गुणसाम्येन वस्त्वन्तरकतारूपसामान्यालकारेऽतिव्याप्तिः । वस्त्वन्तरकताया निजस्वरूपनिगूहनमन्तरेण संभवात् । तत्रापि वस्त्वन्तरेण वस्त्वन्तरनिगूहनसंभवात् । अतो नेमानि लक्षणानि युक्तानि । अत एव काव्यप्रकाशकारलक्षणमपि निरस्तम् । छद्मनोऽपि वस्त्वन्तररूपत्वे नोक्तातिव्याप्तितावस्थ्यात् । तस्मात् 'व्याजोक्त्यलकारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते -
'व्याजत्वेन व्याजेनोद्भुतवस्तुनिगृहनं व्याजोक्तिः' इति लक्षणनिष्कर्षः। यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहनानहत्वात् व्याजत्वावच्छेदेन केनचिद्व्याजेन प्रच्छाद्यते सा व्याजोक्तिरिति लक्षणार्थः ।
निवेशस्यैव-त,न ' व्याप्तिर्निरस्तैव —आ 'निगूहनं विवक्षित व्याजोक्तौ -न
निगूहनभावेन-त . 'व्याजोक्तिलक्षणम्-न