________________
122
॥ अथ व्याजोक्त्यलङ्कारः ॥ वक्रोक्त्यनन्तरम् उक्तावनृजत्वसाम्येन व्याजोक्तिनिरूपणमुचितमिति
अवान्तरसङ्गतिः । ननु
अलङ्कार राघवे
9
'व्याजोक्तिः छद्मनोद्भिन्नवस्तुरूपनिगूहनम् । इति काव्यप्रकाशकारः । 'उद्भिन्नवस्तुनिगूहनं व्याजोक्ति 'रित्यलङ्कार सर्वस्वकारः । ' यत्रोद्भिन्नं किश्चिद्वस्तु कुतश्चिन्निगूहते भूयः । वस्त्वन्तर निक्षेपाद्व्याजोक्ति तामुशन्त्येताम् ॥ '
,
इत्येकावळीकारः ।
' सा व्याजोक्तिर्यदुद्भिन्नवस्तुनस्स्थानिगूहनम् ' इति साहित्यचिन्तामणिकारः ।
व्याजोक्तिस्सा समुद्भूतं वस्तु यत्र निगूह्यते
"
"
इति विद्यानाथः ।
इति । सः पुनर्वदति - या काचिंद्वनमालिका - वनोत्पन्नपुष्पमालिकेति । वनमालिका इत्यस्य बनानां मालिका श्रेणिः - वनपंक्तिरिति मत्वा सा तं पुनः पृच्छति - विपिनश्रेणी तनौ न धार्यते इति । वनालि न कोऽपि शरीरे धारयति खल्विति । तदा हनुमान् वदति । सीते ! त्वं मुग्धा । वनमालिका इति चेत् तुलसीदळावळिरसौ - तुलसीमालिकैषा खलु इति । तदा सीता वदति सत्यम् असौ राम: तुलस्यां प्रियः इति । तुलसी काचन पौराणियी स्त्री, तस्यां प्रियः इति । एवं 'काञ्चनमालिकां' 'वनमालिका' इत्येतयोः पदयोः काञ्चन मालिका काञ्चनमालिकाम् इति सभङ्गश्लेषेण, वनमालिका - वनानां मालिका, वनोत्पन्नपुष्पमालिका इत्यभङ्गश्लेषेण च अन्यथायोजनात् श्लेष - वक्रोक्तिः । शार्दूलविक्रीडितवृत्तम् ।