________________
वक्रोक्त्यलंकारप्रकरणम्
121 सत्वेऽपि विशेष्याभावात्संभवति । श्लेषेणान्यथायोजनरूपवक्रोक्तौ तु विशेष्यसत्वेऽपि विशेषणाभावात् संभवति । प्रागुक्त विमलं जलमन्तनद्या; कच्छे महिषश्चरति' इति वाक्यान्यथायोजने अतिव्याप्तिनिवृत्त्यर्थ समुच्चितेत्यादिविशेषणं बोध्यम् । 1) तत्र काक्वान्यथायोजनरूपवक्रोक्तियथा -
रामाङ्गुळीविलग्ने मुद्रे नो वेद तन्मनो भवति ।
मां तारकेन्महात्मा दुःखाब्धेरेष तत्वतो वदतु ||
अत्र तन्मनो नो वेद । वेदैव भवती। एष रामो मां तारयेत्तारयेत् किम् । तत् त्वं भवति । 'ननु वदस्विति काकुद्वयेन प्रतिपाद्यते । ii) श्लेषण अन्यथायोजनरूपवक्रोक्तिर्यथा -
'धत्ते मारुतपुत्र ! वक्षसि निजे किं वा सदा राघवः सीते! काश्चनमालिकां, वनजुषा प्राप्ताऽमुना सा कुतः । या काचिद्वनमालिका, न विपिनश्रेणी तनौ धार्यते मुग्धा त्वं, तुलसीदळावळिरसौ, सत्यं तुलस्यां प्रियः ॥
1 नीलं जलम्-आ 'आर्यावृत्तम् । ' 'ननु' इति पदं 'न' प्रतौ नास्ति । 'आञ्जनेयसीतयोः संवादोऽयम् । सीता मारुतिं पृच्छति- मारुतपुत्र ! रामः सदा स्ववक्षसि किं धत्ते वा ! किमपि धारयति वेति । सः तां प्रति वदति – 'सीते : काश्चन मालिकां धत्ते इति । सीता काञ्चनमालिकां सुवर्णमालिकामिति संभाव्य पुनःपृच्छति-अमुना वनजुषा-अनेन वनवासिना रामेण सा काञ्चनमालिंका-कुतः प्राप्ता