________________
120
अङ्कका राघवे
' वाक्यं यदन्येनोक्तं केनाप्यन्येन योज्यतेतरथा | तत्काकुश्लेषाभ्यां यदि वक्रोक्तिरन्यथोक्तिर्या वक्तव्यंपरिहारः'
इति साहित्यचिन्तामणिकारः ।
'अन्यथोक्तस्य वाक्यस्य काक्वा श्लेषेण वा भवेत् । अन्यथा योजनं यत्र सा वक्रोक्तिर्निरूप्यत ||
इति विद्यानाथः ।
काक्वाऽन्यथा
'अत्र साहित्यचिन्तामणिकारलक्षणव्यतिरिक्तलक्षणेषु काक्वा योजनं वा वक्रोक्तिलक्षणमभिप्रेतम् । श्लेषेणान्यथायोजनं वा । समुच्चिताभ्या मन्यथायोजनं वा । तदुभयान्यतरेण वा । संभवदेकतरेण वा । नाद्यः । श्लेषेणान्यथायोजनरूपवक्रोक्तावव्याप्तेः । न द्वितीयः । योजनरूपवकोक्तावव्याप्तेः । न तृतीयः । असंभवप्रसङ्गात् । न चतुर्थ - पञ्चमौ । प्रागुक्तरीत्या अन्यतरैकशब्दार्थनिर्वचनात् । अतो नेमानि लक्षणानि युक्तानि । यत्तु साहित्यचिन्तामणिकारलक्षणं तदपि न युक्तम् । ' नीलं जलमन्तर्नद्याः कच्छे महिषश्वरती 'ति वाक्यश्रवणे सति नद्याः कच्छे महिषश्चरतीत्यन्यथायोजनस्यापि वक्रोक्तिप्रसङ्गात् । ननु काक्वा श्लेषेण वा अन्यथायोंजनमेव वक्रोक्तिरिति विद्याधरस्यापि विवक्षितमिति चेत्तर्हि प्रागुक्तविकल्पत दूदूषणापत्तिः । तस्मात् वक्रोक्तिलक्षणं दुर्निर्वचमिति चेदत्रोच्यते ।
अन्यथोक्तस्य वाक्यस्य काक्वाऽन्यथायोजनरूपत्वाधिकरणत्वे सति श्लेषेणान्यथायोजनरूपत्वानधिकरणं समुच्चितैतद्विशेषणविशेष्योभयाभावानधिकरणयोजनं वक्रोक्ति' रिति लक्षणनिष्कर्ष: ।
अत्र सत्यन्तं विशेषणम् । श्लेषेणान्यथायोजनरूपत्वं विशेष्यम् । तदुभयवैशिष्ट्यं तदनधिकरणत्वम् । काक्वाऽन्यथायोजनरूपवक्रोक्तौ विशेषण
5 तत्र—न