________________
112
मलङ्कारराघवे
इत्यादिकाव्यप्रकाशकाराद्युदाहरणानि सहितोक्तेरेव शोभन्ते न सहोक्तेः । तदुदाहरणं तु सहत्वसाहित्या विवेक निबन्धनं ग्रन्थकाराणामिति द्रष्टव्यम् ।
|| अथ विनोक्त्यलङ्कारः ॥
सहितोक्त्यनन्तरं प्रागुक्तालङ्कारद्वयप्रतिपक्षभूत विनोक्तिनिरूपणमुचित
मित्यवान्तरसङ्गतिः ।
ननु -
-
विना संबन्धि यत्किञ्चित् यत्रान्यस्य परा भवेत् । अरम्यता रम्यता वा सा विनोक्तिरनुस्मृता ||
इति विद्यानाथः । तत्र वक्तव्यम् । किं रम्यताघटितं लक्षणम् । किं वा अरम्यताघटितम् । समुच्चितोभयघटितं वा । 'उतान्यतरघटितं वा । संभवदेकतरघटितं वा । नाद्यद्वितीयौ । तयोः परस्परमेकैकघटितविनोक्त्योः अव्याप्तेः । न तृतीयः । असंभवप्रसंगात् । रम्यतारम्यतयोः काप्येकत्रा पर्यवसानात् । न चतुर्थपञ्चमौ । अन्यतरेकतरशब्दार्थानिरूपणात् । अतो नेदं लक्षणं युक्तम् । यदपि साहित्य चिन्तामणिकार लक्षणम्
यत्र प्रधानमेकं स्यात् विनार्थेनान्यदन्वितम् । सा विनोक्तिस्समाख्याता सहोक्तिपरिपन्थिनी ॥
अन्यत् शोभन'मशोभनञ्चेत्यर्थः । तदपि न युक्तम् । प्रागुक्तदूषणा पत्तेः । नन्वत्रान्यशब्देन पूर्वावस्थापेक्षया विकृतत्वं कथ्यते । विकृतत्वञ्च रम्यत्वेनापि संभवतीति नोक्त विकल्पदूषणापत्तिरिति चेर्हि ' स्थाणुं विना
'' उतान्यतरघटितं वा' इति भागः 'आ' प्रतौ नास्ति ।
2
मशोभनं वा स्यादित्यर्थः न