________________
110
मलकारराघवे
द्विवचनबहुवचनप्रयोग इति प्रयोगभेदाद्वा तयोर्भेदः ? किं वा वस्तुस्वरूपतः ! नाद्यः। 'सहगताविति सहत्वेऽपि द्विवचनप्रयोगदर्शनात् , 'सहितो गत' इति साहित्येऽप्येकवचनप्रयोगदर्शनात् । न द्वितीयः । 'सहयुक्तः सहितः इत्येकार्थतयैव प्रतीतेरिति चेदुच्यते-एकव्यापारद्वारा यत्र द्वयोयुगपदन्वयः तत्र साहित्यम् । यत्रैकस्यैकव्यापारेणान्वये सति पश्चात् व्यापारान्तरेण अन्यस्यान्वयः तत्र सहत्वमित्यन्वयभेदात् तयोर्भेदः । ननु 'चैत्रमैत्रावागतौ' इति साहित्येऽपि व्यापारभेदात् 'तथाऽभेदो न युक्त इति चेत् सत्यं, तत्र व्यापारभेदः । तथापि द्विबहुवचनप्रयोगात् व्यापारव्यतिरिक्तानां सम्भूयैक. द्वारताधीरनपनोद्या। न च स्वरूपतो भिन्नानां व्यापाराणां सम्भूयैकद्वारता कथमिति वाच्यम् । द्विबहुवचनान्तशब्दप्रयोगात् तथैव व्युत्पत्तेः । वस्तुतस्तु यौकोन्मुखत्वपूर्वकं परस्योन्मुखत्वं तत्र साहित्यमिति 'वास्तवो भेदोऽप्यस्ति । सहत्वसाहित्ययोः यदुक्तं ' सहगताविति सहत्वेऽपि द्विवचनं दृश्यत' इति तन्न | तत्र साहित्यमेव, न सहत्वम् । साहित्यस्य द्विबहुवचनोन्नेयत्वात् । अत एव — सहितो गत' इत्यत्र सहत्वमेव न साहित्यम् । सहत्वस्य एकवचनोन्नेयत्वात् इत्यलं तत्रान्तरसिद्धप्रक्रियाप्रपञ्चप्रपञ्चनेन । तत्तस्मात् सिद्धं सहत्वसाहित्ययोर्भेदात् सहोक्तिसहित क्त्यलङ्कारयोर्भेद इति ।
'अनेन वस्तुसंबन्धो यत्रैकद्वारतो भवेत् ।
सा सहोक्तिस्समानाङ्गा सहितोक्तिरितीर्यते ॥' इति लक्षणम् । 'यत्र अनेकपदार्थानामेकद्वारा अन्वये अतिशयोक्त्या सिद्ध उपमानोपमेयभावः कल्प्यते तत्र सहितोक्तिः ।
'सहयुक्ते सहितः-आ 'तदाभेदेन युक्त--आ.. 'वास्तवभेदोऽप्यस्ति-न