________________
108
मलङ्ककारराघवे
सहे 'त्यादावतिव्याप्तिः'। कल्पितौपम्यपर्यन्तेत्यनेन तन्निवृत्तेः । नापि 'प्रागुक्ताऽतिव्याप्तिः । अतिशयोक्तित इत्यनेन तव्यावृत्तेः । सा च भेदेऽभेदरूपकार्यकारणपौर्वापर्यविपर्ययरूपाऽतिशयोक्तिमूला ।
१) तत्र कार्यकारणपौर्वापर्यविपर्ययरूपाऽतिशयोक्तिमूला. सहोक्तिर्यथा - .. आकृष्ट श्रितजनभावना विनोदैः
श्रीरामे गृहसविधं विगाहमाने । सम्पत्या सह सुषमा तदङ्गभाजां
भूषाणां तदपि विभूषयाम्बभूव ॥ अत्र श्रीरामभूषणकान्तिप्रसरणोत्तरकालभाविनीनां सम्पदा समानकालीन. त्वमुक्तमिति कार्यकारणपौर्वापर्यविपर्ययः । न चात्रौपम्यकल्पनया 'उपमानशका कार्या । सहोक्तेः पुरतः स्मृतत्वात् , उपमायाः पश्चात्प्रतीतत्वेन जघ. न्यत्वात् ' मुख्यजघन्यन्यायेन' सहोक्तेरेवाऽङ्गीकार्यत्वात् । विद्यानाथस्तु - 'उपमायाः प्राकारणिकाऽप्राकरणिकविषयत्वात् सहोक्तो द्वयोरपि प्रकृतत्वात् न तदात्मता' इत्याह । तन्न युक्तम् ।
'सौमित्रिरायोधनमातनोति
"यथैव रामो धृत्तचापबाणः । इति केवलप्राकरणिकोपमाया अपि दृष्टत्वात् ।
'प्रागुक्तेऽतिव्याप्तिः-आ. विनोदे-आ 'प्रहर्षिणीवृत्तम् । 'नौ जौ गस्त्रिदशयति प्रहर्षिणीयम्' इति तल्लक्षणं
वृत्तरत्नाकरे। * उपमाशङ्का-त,न 'यदेष रामो-आ 1 'केवल' इति पदं 'आ' प्रतौ नास्ति ।