________________
सहोत्तयलकारप्रकरणम्
107
'प्रधान्येन निबद्धं यदुपमानोपमेययोरेकम् । अन्यत्सहार्थसहितं भवति सहोक्तिस्तदा ख्याता ||'
इत्येकावळीकारः । 'यत्र प्रधानमेकं स्यात् उपमानोपमेययोः । अन्यत्सहार्थे पतितं सा सहोक्तिरुदाहता ॥'
. इति साहित्यचिन्तामणिकारः । 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः।। कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥'
_
इति विद्यानाथः । तत्रैकार्थाभिधायकमपि सहार्थबलात् उभयार्थस्यापि गमकं यत्र सा सहोक्तिरिति 'काव्यप्रकाशकारलक्षणार्थः' । 'तन्न युक्तम् । 'पुत्रेण सह आगतः पिता' इत्यादावतिव्याप्तिप्रसङ्गात् । तत्र ह्यागतत्वं पितरि शाब्दम् । पुत्रगतं तु सहार्थसामर्थ्यात् प्रतिपाद्यते । न च सापि सहोक्तिरेवेति वाच्यम् । विच्छितेरभावात् । अतो नेदं लक्षणं युक्तम् । तदुत्तरलक्षणत्रयेऽपि उममानोपमेयभावो, वास्तवो वा विवक्षितः । काल्पनिको वा । नाद्यः । असम्भवप्रसंगात् । द्वितीये तु 'अनेन साकं विहराम्बुराशेः' इत्यत्रातिव्याप्तेः । अतः तल्लक्षणत्रयमपि न युक्तम् । यत्तु विद्यानाथलक्षणं तदेव युक्तमिति वयमुत्पश्यामः । न च तत्र 'पुत्रेण सह आगतः पिता', 'सह शाखया प्रस्तरं प्रसरति', 'यस्त्वया धर्मश्चर्तव्यः', 'सोऽनया
1 'तन्न युक्तम् ' इति पदद्वयं 'त' प्रतौ नास्ति । * 'अतः लक्षणत्रयमपि' इत्यतः “ सहेत्यादावतिव्याप्तिः' इत्यन्तो भागः 'आ' प्रतौ लुप्तः । न प्रती ' तल्लक्षणत्रयमपि' इत्यस्य स्थले 'तल्लक्षणत्रितयम्' इत्यस्ति । पुत्रेण सहितः पिता' -तन