________________
1104
अलङ्कारराघवे "विशेष्योभयाभावानधिकरणमतिशयोक्तिः' इति लक्षणनिष्कर्षः । अत्र सत्यन्तं विशेषणम् । कार्यकारणोभयविपर्ययरूपत्वं विशेष्यम् । उभय. विशिष्टं तदनधिकरणत्वं त्रेधा घटते । विशेषणाभावाद्वा । विशेष्याभावाद्वा । तदुभयाभावाद्वेति । अत्र भेदाऽभेदातिशयोक्तौ विशेषणसत्वेऽपि विशेष्याभावात् लक्षणानुगतिः । कार्यकारणविपर्ययरूपातिशयोक्तौ विशेष्यसत्वेऽपि विशेषणाभावादनुगतिः । तथा च विपर्ययरूपत्वानधिकरणमिति लक्षणे कथ्यमाने तादृशैकैक रूपत्वाधिकरणत्वकार्यकारणविपर्ययरूपत्वोभया. भावाधिकरणेषु तदितरालङ्कारादिप्रपञ्चेऽतिव्याप्तिः स्यात् । तदर्थमेतद्विशेषणविशेष्योभयाभावानधिकरणमित्युक्तम् । सा च पञ्चविधा । भेदे अभेदः, अभेदे भेदः, संबन्धे असंबन्धः असंबन्धे संबन्धः, कार्यकारणविपर्ययश्चेति ।
१) तत्र भेदे अभेदरूपातिशयोक्तिर्यथा - . राममौळि सविधे न संशयः ... . पूर्णशुभ्रकर एव जम्भते । ... एष किन्तु भरतानुजोधृतं
___ हेमदण्डमवलम्ब्य 'वर्तते ॥ अत्र श्वेतच्छत्रचन्द्रयोर्भेदेऽप्यभेदाध्यवसायः । २) अभेदे भेदरूपातिशयोक्तिर्यथा -
चक्षुः श्रोत्रागोचराचिन्तनीयं
__ शीलं भद्रे राममुद्रे त्वदीयम् । विशेष्याभावानधिकरणत्वे-आ ' 'अत्र' इति पदम् 'आ' प्रतौ नास्ति । 'रूपत्वाधिकरणत्वकार्यकारणत्वकार्यकारणविपर्ययरूपत्व-आ. 'सविधेयसंशयः-त रथोद्धतावृत्तम् ।