SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 103 अतिशयोक्त्यलङ्कारप्रकरणम् कथनसामर्थ्येन 'लक्ष्यापलापेऽतिप्रसङ्गः । यद्यपि विद्यानाथलक्षणं तदपि न साधीयः । 'लिम्पतीव तमोऽङ्गानी'त्युत्प्रेक्षायामतिव्याप्तेः। तत्र विषयानुपादानस्य उत्प्रेक्षास्थले उपपादितत्वात् । कविप्रौढोक्ति जीवितेति तस्य व्यर्थत्वात् । नन्विदं रजतमित्यत्र अतिव्याप्तिनिरासाय तदिति चेत् मैवम् अतिशयोक्ता. वपि विषयिणो विषयक्रोडीकारेणोपात्तत्वात् विषयस्यानुपादानम् असिद्धम् इत्यसम्भवात् । 'औदार्यमन्यद्भुवि शौर्यमन्यत् चातुर्यमन्याधि धैर्यमन्यत् । श्रीरामचन्द्रक्षितिपालमौळे .. त्वां नैव जानामि मनुष्यमात्रम् ॥ इत्यादौ विषयिणो विषयक्रोडीकारेणैव उपात्तत्वात् । ननु विषयिणः पार्थक्येन विषयस्यानुपादानं लक्षणे विवक्षितमिति चेत्, अस्तु नाम तथा । तथापि कार्यकारणविपर्ययरूपातिशयोक्ती अव्याप्तिनं केनाप्युद्धतुं शक्यते । तस्मात् अतिशयोक्तिलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते- 'भेदे अभेदः, अभेदे भेदः, संबन्धे असंबन्धः, असंबन्धे संबन्धः 'एवंविधैकैकरूपत्वाधिकरणत्वे सति कार्यकारणविपर्ययरूपत्वानधिकरणमेत द्विशेषण 'लक्ष्यापलापेऽतिप्रसङ्गात् यत्तु विद्यानाथलक्षणं-त ' अतिप्रसङ्गप्रसङ्गात् यत्तु विद्यानाथलक्षणं-न . 'जीवितेत्यस्य व्यर्थत्वाच-त,न . . 'प्राधान्यमन्यत्-आ . * इन्द्रवज्रावृत्तम् । ' स्यादिन्द्रवज्रा ततजास्ततो गौ' इति तल्लक्षणं वृत्तरत्नाकरे । 'लक्षण--आ ' एवंविधैकरूपत्वाधिकरणत्वे--आ १ द्विशेषणमेतद्विशेषणविशेष्य-न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy