________________
उत्प्रेक्षालङ्कारप्रकरणम्
१९) गुणाभावफलोत्प्रेक्षा यथा - रामप्रिये श्रीमति रत्नमुद्रे
'सापत्नविद्वेषमिवापनेतुम् । सुदूरमायातवतीति सीता
सिषेच तां नेत्रपयोभिरुष्णैः ॥ अत्र विद्वेषमपनेतुमिवेति गुणाभावः फलम् । २०) द्रव्यस्वरूपोत्प्रेक्षा यथा -
रामभूपेन्द्रनीलानां तेजस्सेवार्थमागतम् ।
हरिनामिसमुद्भुतमन्तरिक्षमिवावभौ ॥ अत्र अन्तरिक्षमिवेति द्रव्यस्वरूपमुत्प्रेक्ष्यते । न चात्र जातिस्वरूपोत्प्रेक्षा शङ्कनीया । अन्तरिक्षस्यैकत्वेन जातेरभावात् । २१) द्रव्याभावस्वरूपोत्प्रेक्षा यथा -- रामाङ्गभूषाविलसन्मणीनां
सर्वकषेणानुपमेयधाम्ना। तिरोहिते चन्द्रमरीचिबिम्बे
व्यलोकि मार्ताण्डमिवान्तरिक्षम् ॥ अत्र मार्ताण्डमिवेति द्रव्याभावः उत्प्रेक्ष्यते । न चात्र मार्ताण्डत्व. जात्यभावोत्प्रेक्षा शङ्कनीया। मार्ताण्डस्यैकत्वेन जातेरभावात् । द्वादशभेदाङ्गीकारात् तज्जातिश्शक्यशङ्का । विष्णोर्दशावतारत्ववदेकस्यैव द्वादशरूपत्वाङ्गीकारात् । अन्यथा विष्णुत्वजातेरप्यङ्गीकारप्रसङ्गात् ।
' सापत्न्यविद्वषे-त,न । ' उपजातिवृत्तम् । * उपजातिवृत्तम् । ....
0