________________
92
मलकारराव यामपि निमित्तस्योपादानमेव, नानुपादानमित्युक्तत्वात् । वाच्योत्प्रेक्षायां निमित्तस्य गम्यत्वे गुणरूपत्वे क्रियारूपत्वे च शोभातिशयाभावात् एक एव भेदो वर्णितः । गुणक्रिययोरुत्प्रेक्षाविषयत्वनिमित्वे पूर्वालङ्कारिकैरङ्गीकृते । तत्र यथासंभवमुदाहरणानि । १) उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा
चन्द्रांशुशुभ्रा रघुनाथमौळि-...
'हीरप्रभा भान्तितरां सुदीर्घाः । प्रसूनमाला इव दीप्यमाना
दिगनानां कबरीभरेषु ॥ अत्र 'मालाशब्दो जातिवचन इति जातिभावस्वरूपोत्प्रेक्षा । ननु प्रसूनमालाया द्रव्यत्वात् द्रव्यभावस्वरूपोत्प्रेक्षा 'किं न स्यात् । उच्यते । 'जातिवाचकैः शब्दैः प्रथमं जातिरेवोपस्थाप्यते । न व्यक्तिः । तथा सति प्रथमं प्रतीत. नातेस्व. प्रकृते संभाव्यमानत्वात् जात्युत्प्रेक्षैव । ननु 'प्रकृतहीरभाः प्रसूनमालाद्रव्यरूपतया संभाव्यत एवेति "द्रव्यभावस्वरूपोत्प्रेक्षा इत्यपि वक्तुं शक्यत एवेति चेत्सत्यम् । तथापि जातिपुरस्कारेणैव व्यक्तिः सम्भाव्यत इति प्रथमतः प्रतीतजातेः मुख्यत्वात् पश्चाप्रतीत व्यक्तेः जघन्यत्वात् 'मुख्य
हारप्रभा-आ,न 'उपजातिवृत्तन् । ... (i) किंन स्यादिति चेत् जातिवाचकशब्दैः-त
(ii) किं न स्यादिति चेदुच्यते-न 'जातिवाचकशब्दैः-न " (i) प्रकृतहारमाः–त (ii) प्रकृतहारप्रभा-न " द्रव्याभावे स्वरूपोत्प्रेक्षा-आ 'जातेः-आ....