________________ 91 उत्प्रेक्षालंकारप्रकरणम् जातिगुणक्रिया द्रव्याणाम् अध्यवसायविषयत्वे प्रत्येकं 'चतुर्धा / एतेषां भावाभादरूपत्वेन द्वैविध्ये प्रत्येकमष्टविधत्वम् / तत्राध्यवसायस्य गुणनिमितत्वे क्रियानिमित्तत्वे च द्वैविध्ये प्रत्येकं षोडश प्रकाराः / निमित्तमपि वाच्योत्प्रेक्षायां वाच्यं गम्यं चेति द्विविधम् / गम्योत्प्रेक्षायां निमित्त वाच्यमेव / तत्र संभावनावाचकशब्दनिमित्तयोरुभयोरप्यप्रयोगे उत्प्रेक्षाया निरवलम्बत्वप्रसङ्गात् / जातिगुणक्रियाद्रव्याणां स्वरूपेण हेतुरूपेण फलरूपेण च अध्यवसायविषयत्वे बहु वेधोत्प्रेक्षा / वाच्योत्प्रेक्षायामपि स्वरूपोत्प्रेक्षा. यामिव निमित्तस्य उपादानअनुपदानाभ्यां 'द्वैविध्यम् / हेतुफलोप्रेक्षयोस्तु निमित्तस्योपादानमेवेति न द्वैविध्यम् / हेतुफलोत्प्रेक्षयोः निमित्तभूतयोरुभयोः फलसाधनभूतयोः अनुपादाने तयोरुत्प्रेक्षयोः शोभातिशयाभावात् / तस्मात् एवं वाच्योत्प्रेक्षाभेदगणना। उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा तादृशजात्यभावस्वरूपोत्प्रेक्षा, उपात्तक्रियानिमित्तजातिभावस्वरूपात्प्रेक्षा, तादृशजात्यभाव. स्वरूपोत्प्रेक्षा, अनुपात्तनिमित्तजातिभावस्वरूपोत्प्रेक्षा, तादृशजात्यभावस्वरूपो. प्रेक्षा, उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा, तादृशजात्यभावहेतूत्प्रेक्षा, उपात्तकियानिमित्तजातिभावहेतूत्प्रेक्षा, तादृशजात्यभावहेतूत्प्रेक्षा, उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा, तादृशजात्यभावफलोत्प्रेक्षा, उपात्तक्रियानिमित्त. जातिभावफलोत्प्रेक्षा तादृशजात्यभावफलोत्प्रेक्षा एवं चतुर्दशभेदाजात्युजात्प्रेक्षा। अनयैव रीत्या गुणाद्युत्प्रेक्षाभेदा परिगणनीयाः / एवम् उत्प्रेक्षायाः षट्पञ्चाशद्भेदाः। गम्योत्प्रेक्षायां त्वष्टचत्वारिंशभेदाः / गम्योत्प्रेक्षायां स्वरूपोत्प्रेक्षा ' द्रव्याणां चतुर्णामध्यवसाय-न 'चतुर्विधा-तन ' तेषां-न .. 'द्वैविध्ये-आ .