________________ उत्प्रेक्षालद्वारप्रकरणम् नाम / उत्प्रेक्षितत्वं वा। संभावितत्वं वा। ऊहितस्वं वा! 'तर्कितत्वंपा। अध्यवसितत्वं वा / 'नाद्यः / आत्माश्रयप्रसङ्गात् / अत एव न द्वितीयतृतीयचतुर्थाः / तेषामुत्प्रेक्षापरपर्यायत्वात् / अन्त्ये तु अतिशयोक्तावति. व्याप्तिः / तत्र 'निर्णीताध्यसाययोगात् / गुणक्रियारूपान्यधर्मसम्बन्धात् / 'अध्यवसायस्यावश्यंभावात् / किञ्च यत्किञ्चिदन्यात्मत्वेनाध्यवसितत्वं वा / अध्यवसायविषयविषयीभूतान्यत्वेन वा / नायः। घटपटाद्यात्मना अध्यव. सितत्वाभावात्, असम्भवप्रसङ्गात् / न द्वितीयः / एकस्यामुत्प्रेक्षायाम् उत्प्रेक्षान्तर स्थलीयान्यात्मनाध्यवसिनस्वाभावात् असम्भवप्रसङ्गात् / ननु यत्र योऽध्यवसायः तत्र तद्विषयीभूतान्यत्वेन उपतर्कितत्वमिति चेत् न / अध्यवसायविषयतावच्छेदकत्वस्यैव परिच्छेत्तुमशक्यत्वेन तद्घटितलक्षणस्यापि दुर्ग्रह. स्वादज्ञानासिद्धिप्रसङ्गात् / तत्सत्वे तत् किं निरूपणीयम् / न च कवि. प्लोढोक्तिसिद्धत्वं तदवच्छेदकमिति निरूपयितुं शक्यम् / तस्य कार्यकारणविपर्ययरूपातिशयोक्तयादौ अध्यवसायाभावस्थलेऽपि सत्वेन अतिरिक्तवृत्तित्वात् 1 तर्कितत्वं वा' इत्यनन्तरम् 'अध्यवसितत्वं वा' इति 'त,न' प्रत्योः वर्तते / 'आ' प्रतौ ' तर्कितत्वं वा' इत्यस्य प्रागेव "अध्यसितत्वं वा' इति दृश्यते / उत्तरोत्तरवाक्यान्वयसार्थक्यदृष्टया ‘तर्कितत्वं वा। ' अध्यवसितत्वं वा' इत्ययमेव क्रमः समुचितः इति स क्रमः अनुसृतः अत्र / 'न तावदाद्यः-त - (i) निर्निमित्तस्याध्यवसाययोगात्-त. (ii) निर्निमित्ताध्यवसाययोगात्-न .. ' अध्यवसायावश्यमावात्न 'स्थलीयान्यात्मकाध्यवसितत्वाभावात्-आ