SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ - मलबारराघवे विषयाद्विषयिणो भिन्नत्वेन प्रतिभानन्तरं व्यञ्जनाव्यापारेणाभिन्नत्वेन प्रतीतिसाभ्याचतः साध्यपदेनातिशयोक्तिव्यावृत्तिरिति चेत् उच्यते विषयिणो विषयकोडीकारेण प्रवृत्या अभिन्नत्वेन प्रतीतिः साध्या / उत्प्रेक्षायां तु उक्त. विधया व्यञ्जनाव्यापारेणेत्युभयसाध्यवसायस्य साध्यत्वाविशेषात् 'अव्याप्तिरनपायैवेति पूर्वोक्तदूषणप्रसङ्गात् एकावलीकारलक्षणमपि न युक्तम् / यत्तु साहित्यचिन्तामणिकारलक्षणं, तत्र यावदन्य धर्मसंबन्धो का, यत्किञ्चिद्धर्मसंबन्धो वा, अध्यवसायनिमित्तम् / न तावदाद्यः / असंभवप्रसङ्गात् / प्रकृतस्य उपमानगतसाधारण संबन्धासंभवप्रसङ्गात् / द्वितीये गुण. क्रियासम्बन्ध एव अध्यवसायनिमित्तमिति वक्तव्यम् / तन्न युक्तम् / प्रागुक्त. दूषणानतिवृत्तेः / किंच अतिशयोक्तावतिव्याप्ति को वारयेत् / तत्राप्यन्य. धर्मसंबन्धं विना विषयस्य विषय्यध्यवसायासंभवात् / ननूत्प्रेक्षायां प्रकृतस्याप्रकृतत्वेनाध्यवसायः / अतिशयोक्तौ तु अप्रकृतस्य प्रकृतत्वेन अध्यवसाय इति नातिव्याप्तिरिति चेत् उच्यते-किमिदं वचनमात्रेण, किं वा प्रतिफ्त्यनुसारेणोच्यते / नाद्यः / 'उत्प्रेक्षायां प्रकृतस्यैवाप्रकृतत्वेन अध्यवसाय एवेति प्रतिवचनस्यापि संभवादसंभवप्रसङ्गात् / नेतरः / प्रतीतेरविशेषात् / नन्वतिशयोक्ती अप्रकृतस्यैवोगत्तत्वान् प्रकृतेनानुपातेन अध्यवसायः संभवतीति युक्तिरिति चेत् तर्हि - 'रामस्य समरे पश्ये 'त्याद्युत्प्रेक्षायाम् अन्याप्तिप्रसङ्गः / तत्र अप्रकृतस्यैव उपात्तत्वात् प्रकृतस्यानर्थकत्वात् / 'तस्मादिदमपि न युक्तम् / यत्तु विद्यानाथलक्षणं, तत्रापि किमिदमुपतर्कितत्वं 'अतिव्याप्तिरनपायैव-न * धर्मसंबन्धेन वा-न ' सम्बन्धासम्भवेनासम्भवप्रसमात्....न् 'उत्प्रेक्षायामप्रकृतस्यैव प्रकृतत्वेनाध्यवसाय-त " तस्मादिदममि लक्षण न युक्तम्-न: /
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy