________________ उत्प्रेक्षालङ्कारप्रकरणम् 87 इत्यादौ अव्याप्तिः / तत्र बाणसन्धानाक्षयबाणसमृद्धयोः अर्थात्प्रतीयमानयो. रेव बाणवर्षाद्भुतस्य द्विरूपतया अध्यसायमानयोरनुप्राप्तत्वात् / नान्त्यः / रूपकादावतिव्याप्तेः। नन्वभिन्नत्वेन संभावनं विवक्षितमिति 'नोक्तदोष इति चेत् तर्हि आत्माश्रयप्रसङ्गः। संभावनस्यैव इदनी चिन्त्यमानत्वात् ततः काव्यप्रकाशकारलक्षणं न युक्तम् / यदप्यलकारसर्वस्वकारलक्षणं तदपि न युक्तम् / 'प्रकृतगुणक्रियासंबन्धात्' इति विशेषणस्य व्यर्थत्वात् / सार्थक्ये वा गुणसंबन्धः, "क्रियासंबन्धो वा, समुच्चितोमयसंबन्धो वा, तयोरन्यतरसंबन्धो वा, संभवदेकतरसंबन्धो वा संभाबननिमित्त विवक्षितम् / न तावदाद्यद्वितीयौ तयोः एकैकसंबन्धनिमित्तसंभावनरूपोत्प्रेक्षयोः अव्याप्तेः / न तृतीयः। असंभवप्रसङ्गात् / सम्भवे वा तयोरेकैकसंबन्धनिमित्तसंभावनरूपोत्प्रेक्षया 'अव्याप्तेरनतिवृत्तेः / न चतुर्थपञ्चमौ / अन्यतरशब्दार्थस्स प्रागुक्तरीत्या निर्वक्तुमशक्यत्वात् / प्रागुक्तन्यायेन संभावनमपि निर्वक्तुमशक्यमेवेति अलकारसर्वस्वकारलक्षणं न युक्तम् / यद्यप्येकावळीकारलक्षणं तन्न युक्तम् / अतिशयोक्तावतिव्याप्तेः / तत्रापि प्रकृतस्य अप्रकृतात्मना अध्यवसायात् / ननु 'साध्यपदेन तव्यावृत्तिः सिद्धयति / तथाहिअध्यवसायो द्विविधः / सिद्धः साध्यश्चेति / तथा च सति 'यत्र गुणादि. संबन्धात् विषयिणो भिन्नस्यापि . विषयकोडीकारेण प्रवृत्तत्वादभिन्नत्वेन प्रतीतिः तत्राध्यवसायः सिद्धः / यथातिशयोक्तौ / 'उत्प्रेक्षायां तु उपात्त न रूपकादावतिव्याप्तिरिति चेत्तर्हि-न *क्रियासंबन्धो वा, तयोरन्यतरसंबन्धो वा समुच्चितोभयसंबन्धो वा संभवदेकतरसंबन्धो वा-आ .......... / 'अव्याप्त्यनतिवृत्तेः-न 'साध्यवदेवतद्व्यावृत्तिः-आ ' 'उत्प्रेक्षायां तु'-इत्यारभ्य 'प्रतीतिः साध्या ' इति पर्यन्तं, मध्ये 'आ' प्रतौ भागः लुप्तः। 'न' प्रतावपि लुप्तश्च / .......