________________ 86 भलकारराघवे 'विषयत्वाद्याकारेण प्रकृतत्वेन विषय्युपादानस्यैव विषयोपादानरूपत्वात् तत्वासिद्धः। ननु तथापि विषयिणः पृथगुपात्तं प्रकृते प्रकृतशब्देन विवक्षितमिति नोक्तदोष इति चेत् तर्हि - 'लिम्पतीव तमोऽङ्गानी'त्यादौ उत्प्रेक्षा. याम् अव्याप्तिप्रसङ्गः / तत्र तमोव्यापनादेः प्रकृतस्य लेपनादिरूपतया संभाव्यमानस्य अनुपात्तत्वात् / ननु-' तमोगतत्वेन लेपनक्रियाकृतत्व. मुत्प्रेक्ष्यते / व्यापनादिगम्यमानं निमित्तमेव नोत्प्रेक्षाविषय इत्यलङ्कारसर्व स्वकारो मन्यते' इति चेदुच्यते / तमोव्यापनमात्रेण लेपनकर्तृत्वमुत्प्रेक्ष्यते / अव्याप्ते तमसि तदनौचित्यात् / किन्तु व्याप्ते एव तमसीति तक्तव्यम् / तथो सति 'प्राप्ताप्राप्तौ इव एकेन सविशेषणे ही 'ति न्यायेन लाघवेन च व्यापनादिकमेव लेपनादिरूपतया उत्प्रेक्ष्यते / अत एवोक्तं काव्यप्रकाशकारेण 'व्यापनादिलेपनादिरूपतया संभावितमिति'। एतेन न विषयस्य गम्यमानत्वे युक्तम् / तस्य ‘उत्प्रेक्षिताधारवत्वेन. प्रस्तुतस्यामिधातुमुचितत्वादिति अलङ्कारसर्वस्वकारवचनं निरस्तम् / उक्तन्यायलाघवैरेव तस्य गम्यमानत्वौचित्यात् / ननु तर्हि विषयानिमित्तम् अन्य. दन्वेष्यं स्यादिति चेत् 'मैवं वादः / निरन्तरसंबन्धस्यैव अन्यधर्मतया निमित्तत्वात् / अन्यथा तवापि 'तमोऽतिरिक्तं लेपनसाधनं वस्त्वन्तरमन्वेष्यं स्यात् / तस्मादनुपात्तविषयप्रागुक्तोत्प्रेक्षायामव्याप्तिसिद्धा। अत एव "अमुष्य समरे पश्य वर्षतीवाशुगान् धनुः / तूणीरयुगळं 'वाणं वर्षतीवाद्भुतं स्वयम् // 1 विषयक्रोडीकारेण प्रवृत्तत्वेत विषय्युपादानस्यैव विषयोपादान रूपत्वात् अनुपातत्वासिद्धेः-त ' पृथगनुपात्तं-त 'मैवममाणिः-त,न * तमोऽतिरिक्तं हि न साधनं–त 'रामस्य समरे--त 'पाणि सृजतीवाद्भुतं-त