SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उप्रेक्षालनकारप्रकरणम् 85 तत्र यत्तावत्काव्यप्रकाशकारलक्षणं तत्र संभावनाशब्देन 'उत्प्रेक्षितं वा विवक्षितम् , आहोस्विदभिमानः, किं वा तर्कः, उत ऊहः, अभ्यवसितत्वं वा ! अभिन्नत्वेन प्रतीयमानत्वं वा / नायः / आत्माश्रयप्रसङ्गात् / अत एव न द्वितीयतृतीयचतुर्थाः / ' अभिमानादीनामप्युत्प्रेक्षापरपर्यायत्वात् / तदुक्त विद्याधरेण - 'एतदवलम्बन प्रवर्तमानायाः पुरस्याः संभावनममिमानस्तर्कऊहाश्चेति पर्याया इति / ' नन्वस्तु तर्हि पञ्चमः कल्पः / ने चात्माश्रयः / उत्प्रेक्षायाः अध्यवसायमूलत्वेन अतद्रूपत्वात् इति चेत् न / अतिशयोक्तावप्य तिव्याप्तिः / तत्रापि प्रकृतस्याप्रकृतत्वेन अध्यवसायसंमवात् / ननु- 'मानशब्दवाच्योपमानेन प्रकृतस्याध्यवसानं विवक्षितमिति नोक्तातिव्याप्तिः / अतिशयोक्तौ सादृश्यवाचकपदाभावेन उपमानानिर्देशादिति चेन् मैवम् / 'मन्ये रामो निरुपमवपुः शोमितः कल्पशाखी'त्यत्र सादृश्यवाचकपदाभावेन तत्प्रतियोग्युपमाननिर्देशा'दव्याप्तिप्रसङ्गात् / ननु सादृश्यवाचकपदाभावेऽपि अध्यवसायविषय्येव तत्रोपमानमिति नाव्याप्तिः / 'यथा रामचन्द्र' इत्यादिरूपके सादृश्यवाचकपदाभावेऽपि आरोपविषय्येक उपमानमित्यङ्गीक्रियते / एवमेवेति चेत् तर्हि अतिशयोक्तावप्यध्यवसायविषयिण एव उपमानत्वात् तेन प्रकृतस्याप्यध्यवसानमस्त्येवेति तत्रातिव्याप्तिरनपायैव / ननु तथापि न तत्रातिव्याप्तिः / प्रकृतशब्दस्योपात्तप्रकृतः परत्वादिति अतिशयोक्तौ च विषयस्यानुपात्तत्वादिति चेत् तत्रापि विषयिणो ' उत्प्रेक्षितत्वं वा विवक्ष्यते आहोस्वित्-त,न 'अतिव्याप्तेः-त,न समशब्द'दतिव्याप्तिप्रसङ्गात्-त " चेन्न तत्रापि-त,न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy