SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ मारराषवे .- रामस्य कण्ठमभितो वरणप्रसिद्धा ..पादद्वये च यमुनाजलपाद्यमासीत् // // अथ उत्प्रेक्षालङ्कारः॥ अथाध्यवसायपेटिका / आरोपपेटिकानन्तरम् अभेदगर्भस्वात् अध्यवसायपेटिकेति पेटिकयोस्सङ्गतिः / 'अत्र बहुभेदवत्वादादावुत्प्रेक्षालङ्कारः / ननु 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यद् 'इति काव्यप्रकाशकारः / 'प्रकृतगुणक्रियासंबन्धान अप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा' इत्यलङ्कारसर्वस्वकारः / ''अप्रकृतत्वेन स्यादध्यवसायो गुणाभिसंबन्धात् / साध्या प्रकृतस्य यदा कथितोत्प्रेक्षा तदा तज्जैः // ' . इत्येकावळीकारः / 'प्रकृतस्याप्रकृतत्वेन अध्यवसायोज्यधर्मसंबन्धात् / / उत्प्रेक्षा सापि भवेद्बहुधा जात्यादिभेदेन.॥' .. . . - इति साहित्यचिन्तामणिकारः / 'यत्रान्यधर्मसंबन्धात् अन्यत्वेनोपकीर्तितम् / - प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षा प्रचक्षते // ' इति विद्यानाथः / 1 वसन्ततिलकावृत्तम् / 'तत्र-न 'अप्रकृतत्वेन भवेदध्यवसायो गुणादिसंबन्धात् / साध्यः प्रकृतस्य यथा कथितोत्प्रेक्षा तथा तज्ज्ञैः ॥'-आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy