________________ 79 संदेहासकारप्रकरणम् अत्र निश्चयगर्मसंशये 'अव्याप्तिनिवृत्यर्थ अत्यन्ताभावानधिकरणेत्युक्तम् / 'रामो महेन्द्रः किमि 'त्यादिरूपसंशयामावादसम्भवनिवृत्यर्थमिदन्तया निर्दिष्टेत्युक्तम् / असाम्यनिबन्धनसंशयेऽतिव्याप्तिनिवृत्यर्थ प्रकृतसदृशेत्युक्तम् / 'अनुपदोक्तौ 'अव्याप्तिनिरासार्थम् अंशीभूतेत्युक्तम् / तथाहि - 'अप्रकृतार्थमित्तितया तद्विवक्षिताप्रकृतकोटिकनिश्चययमकविकल्पितकोटिकः संशयो वा / 'तादृशसंशयधारावनिश्चयगर्भसंशयो नाम / अन्यथा निश्चयगर्मत्वविरोधप्रसङ्गात् / तथा सति तत्र अंशीभूतमार्ताण्डत्वादिप्रकारकसंख्यगोचरत्वात्यन्ताभावानधिकरणत्वे सति अन्यस्याप्रकृतार्थस्यांशीभूतसंशयगोचरत्वात्यन्ताभावानधिकरण. त्वात् यावद्विवक्षिताप्रकृतानां नान्याप्तिदोष इति सर्व निर्मलम् / स त्रिवेधः / शुद्धो निश्चयगर्भो निश्चयान्तश्चेति / ___सन्देहमात्रपर्यवसितश्शुद्धो यथा - 'किं मण्डलं प्रलयकालदिवाकरस्य / किं कालपाशवलयं किमु मृत्युवक्त्रम् / आरोपितं समरसीम्नि रघुप्रवीर दोभूषणं धनुरिति प्रविकल्प्यते "स्म // निश्चयगर्भो यथा - आस्थानदीपाः किमिमे चलन्ति वातेन ते सेवितुमागताः किम् / अतिव्यासिनिवृत्यर्थ-न ' अनुपदोक्तौ इतितः भूतेत्युक्तम् इति पर्यन्तमामः 'त' प्रतौ नास्ति / ' 'अव्याप्तनिरासाय अंशीभूतेत्युक्तम्-न 'अत्र वाक्यं दोषग्रस्तमस्ति / को भावः इति न ज्ञायते / हस्त प्रत्यनुसारादत्तम् / वसन्ततिलकावृत्तम् /