SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 78 मलङ्कारराघवे विषयिण एव सन्देहगोचरत्वे विषयस्य तदभावात् / अन्यथा अनुभवविरोध इल्युक्तमेव / यदपि साहित्यचिन्तामणिकारलक्षणं तदपि न युक्तम् / गुरुमतानुसारिणं प्रति तदभेदसाधने अन्यतरासिद्धिप्रसङ्गात् / सर्वधीयथार्थवादिना 'तेनावधारणज्ञानाङ्गीकारान् / किन्तु एकधर्मिकोटिद्वयस्मरणमनियत. विरुद्धकोटिद्वयव्यवहारो वा संशय इति 'तेनाशीकरात् / अतो अन्यतरासिद्धिः / यदप्येकावळीकारलक्षणं, तदपि यथाश्रुतं न युक्तं / निश्चयगर्भसन्दे. हालकोर 'अव्याप्तेः / ननु प्रकृतार्थमित्तिकसंशयगोचरत्वात्यन्ताभावानधि. करणत्वमप्रकृतार्थस्य विवक्षितमिति नोक्तदोषः / तत्रापि निश्चयवशातः पूर्वम् अप्रकृतार्थे सन्देहस्य दृष्टत्वादिति चेत् उच्यते / 'अयं मार्ताण्डः किं स खलु तुरगैस्सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् / कृतान्तः किं साक्षात् महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः // ' इति हि निश्चयगर्भसन्देहोदाहरणम् / तत्र कृशानोः मार्ताण्डत्वप्रकारकसन्देहगोचरत्वात्यन्ताभावाधिकरणत्वान्मार्ताण्डादेरपि कृशानुत्वप्रकारकसंदेह. गोचरत्वात्यन्ताभावाधिकरणत्वसत्वान्निश्चयगर्भ तत्राव्याप्तिस्तदवस्थैव / अतो नेदमपि यथाश्रुतं युक्तमिति संशयालङ्कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते / - 'प्रकृतसदृशाप्रकृतस्येदन्तयानिर्दिष्टाप्रकृतार्थमित्तिकांशीभूतसन्देहगोचरत्वात्यन्ताभावानधिकरणत्वं संदेहालङ्कारत्व'मिति लक्षणनिष्कर्षः / - तेनानवधारणज्ञानानङ्गीकारात्-न * एकधर्मिकानियतकोटिद्वयस्मरणम्-त,न 'तेनाङ्गीक्रियते / अतो-त,न 'अव्याप्तिः-आ सादृश्यमूला भासमानविरोधका समबला नानाकोट्यवगाहिनी धी रमणीया ससन्देहालंकृतिः / (रसगङ्गाधरः-द्वितीयमाननम् )
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy