________________ मजाराने विशेषणम् / विधिनिषेधरूपत्वान्तं विशेष्यम् / तदुभयं विशिष्टम् / विशिष्टा. नधिकरणत्वघटितं लक्षणम् / :: .. तत्र अपनुत्यारोपे विशेषणसत्वेऽपि विशेष्यासत्वान्न लक्षणाव्याप्तिः / आरोपस्यापहवे तु विशेष्यसत्वेऽपि 'विशेषणासत्वान्न लक्षणाव्याप्तिः द्रष्टव्या। ___ एतद्विशेषणविशेष्योभयानधिकरणत्वमित्यनेन तदुभयाभावाधिकरणवस्तुमात्रव्यावृत्तिः सिध्यति / यद्वा-विषयापह्नवसहकृतस्वसत्ताविनाभूतसत्ताधिकरणचमत्कारकसदृशारोपो अपहवः'। अत्रापि प्रथमविशेषणेन' परस्पराव्याप्तिः। द्वितीयविशेषणेन न कविसमयबहिर्भूतापहवाव्याप्तिः / छलादिशब्दप्रयोगस्थले मुख्यनिषेधाऽभावे अपि आर्थिकनिषेधस्य सत्वान्न तत्रापि अपहवेऽव्याप्तिशतावकाशः / स त्रिविधः / अपहवपूर्वकारोप;। आरोपपूर्वकापहवः / छलादिशब्देन असत्यत्वप्रतिपादनं चेति / तत्र भाषद्वयस्य उदाहरणम् - . पूर्णेन्दुमण्डलमिदं न रघूत्तमस्य . शत्रुघ्नवाहुविकृतं पवळातपत्रम् / नेमा निरन्तरतदन्तविलोलमुक्ताः तारास्तदन्तिकसमुल्लसितास्समन्तात् // 1 विशेषणासत्वाल्लक्षणाव्याप्तिः-आ ''न परस्पराव्याप्तिः। द्वितीयविशेषणेन न' इति भागः 'आ' प्रती लुप्तः / 'बसन्ततिलकांवृत्तम् / 'उक्ता वसन्ततिलका तभजाजगौ गः' इति तल्लक्षणं वृत्तरत्नाकरे। ...... ...