________________ अपहवालङ्कारप्रकरणम् छलादिशब्देन असत्यत्वप्रतिपादनं यथा - पादारविन्दे रघुनायकस्य 'माणिक्यमुद्रावलयच्छलेन / . विलग्नमास्ते विजित रिपूर्ण .. साक्षात्प्रतापारुणबिम्बमेव // // अथ सन्देहालङ्कारः // .. ... 'एककर्तृकारोपरूपालकारनिरूपणे परिशेषात् सन्देहालद्वारनिरूपण. मुचितमित्यवान्तरसङ्गतिः / ननु - 'ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः' __इति काव्यप्रकाशकारः। 'किसलयति कविः प्रतिभाषशतः प्रकृतार्थमित्तिकं यत्र / संशयमप्रकृतेऽर्थे सन्देहोऽयं समाख्यातः ||' इति विद्याधरः / 'साम्यादप्रस्तुतार्थस्य या 'धीरनवधारणा / प्रकृतार्थाश्रया तज्जैस्सन्देहोऽयमितीप्यते // ' इति साहित्यचिन्तामणिकारः। 'माणिक्यराजद्वलयच्छलेन-त,न * उपजातिवृत्तम् / * 'एककर्तृकारोप' इत्यारभ्य तदनुत्तौ इति पर्यन्तोभागः 'त' प्रती न दृश्यते / ...धीः तदवधारणा-न. ... .